Enter your Email Address to subscribe to our newsletters

वाराणसी, 29 जूनमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशीहिन्दूविश्वविद्यालयस्य विज्ञानसंस्थाने आनुवंशिकविकारकेन्द्रे कार्यरतैः वैज्ञानिकैः जन्मजातदन्ताभावस्य आनुवंशिकाण्विकाधारस्य अवबोधस्य दिशि महत्त्वपूर्णा सिद्धिः प्राप्ता। अस्य अनुसन्धानस्य निष्कर्षाः अन्तरराष्ट्रीयस्तरस्य प्रतिष्ठितवैज्ञानिकपत्रिकायां प्रकाशिताः सन्ति, येन दन्तरोगाणां प्रारम्भिकपरिचयः, जोखिममूल्याङ्कनम् तथा सूक्ष्मलक्षितचिकित्सायाः नूतनाः मार्गाः उद्घाटिताः इति आशा वर्धिता अस्ति।
एतत् अनुसन्धानकार्यं डा प्रशान्तरञ्जनेन काशीहिन्दूविश्वविद्यालये स्वस्य विद्यावारिधिअध्ययनकाले प्रोफेसरपरिमलदासस्य निर्देशनाधीनं सम्पन्नम्। सम्प्रति डा रञ्जनः अखिलभारतीयआयुर्विज्ञानसंस्थाने नवदेहल्यां परियोजनानुसन्धानवैज्ञानिक द्वितीयपदे कार्यरतः अस्ति।
अनुसन्धानकर्तृभिः समग्रबहुआयामिक ओमिक्स प्रौद्योगिकीषु होल एक्सोम सीक्वेन्सिङ्ग, ट्रान्सक्रिप्टोमिक्स, प्रोटीनसंरचनाविश्लेषणम्, जैवसूचनाविज्ञानम् इत्यादीनाम् अत्याधुनिकानां पद्धतीनां प्रयोगः कृत्वा जन्मजातदन्ताभावेन सम्बद्धानां जटिलाणाम् आण्विकतन्त्राणां गहनम् अध्ययनं कृतम्। अस्मिन् अध्ययने बहूनां नूतनानां पूर्वज्ञातानां च आनुवंशिकपरिवर्तनानां परिचयः प्राप्तः।
अध्ययनस्य सर्वाधिकमहत्त्वपूर्णा उपलब्धिः ओ आर चत्वारि एफ एकविंशति इति जीनस्य प्रथमवारं जन्मजातदन्ताभावेन सम्भावितसम्बन्धस्य स्थापनम् अस्ति। एषः जीनः गुणसूत्रस्य पञ्चदशसंख्यकस्य पञ्चदश क्यू एकादश दशमलव द्वि प्रदेशे स्थितः अस्ति तथा अस्य परिचयः दन्तानुवंशिकीक्षेत्रे महत्त्वपूर्णा उपलब्धिः इति मन्यते। एतदतिरिक्तम् ई डी ए, डब्ल्यू एन टी दश ए, पी ए एक्स नव तथा टी एस पी ई ए आर इत्यादिषु दन्तविकाससम्बद्धेषु प्रमुखजीनिषु रोगसम्बद्धपरिवर्तनानां पुष्टिः विस्तृतविश्लेषणं च कृतम्।
अनुसन्धाने एतदपि प्रकाशं गतं यत् जन्मजातदन्ताभावः केवलं दन्तेषु सीमितः विकारः नास्ति, अपितु अस्य सम्बन्धः अनेकाभिः अन्याभिः शारीरिकव्याधिभिः सह अपि भवितुमर्हति। समग्रबहुआयामिक ओमिक्स विश्लेषणस्य माध्यमेन अनुसन्धानकर्तारः दन्ताभावसम्बद्धजीनानां अन्यरोगैः सह महत्त्वपूर्णान् आण्विकसम्बन्धान् अपि परिचितवन्तः। विशेषज्ञानां मते एषा उपलब्धिः भविष्ये रोगाणां शीघ्रपरिचये, जोखिममूल्याङ्कने तथा वैयक्तिकचिकित्सारणनीतिनिर्माणे महत्त्वपूर्णा साहाय्यकारिणी भविष्यति।
अध्ययनकाले एतदपि ज्ञातं यत् बहूनि आनुवंशिकपरिवर्तनानि जीनाभिव्यक्तिमेव न, अपि तु प्रोटीनस्य स्थैर्यं कार्यक्षमतां च प्रभावितवन्ति। विशेषतया ओ आर चत्वारि एफ एकविंशति पी लाइस त्रिशत दश आर्ज तथा एम आर टी एफ बी पी अला एकशत पञ्चत्रिंशत् इति भेदरूपे सर्वेषु जन्मजातदन्ताभावरोगिषु दृष्टे, येन रोगोत्पत्तौ तयोः सम्भावितयोगदानस्य महत्त्वपूर्णाः संकेताः प्राप्ताः।
प्रोफेसरपरिमलदासः अवदत् यत् अमेरिकादेशे स्वस्य उत्तरस्नातकोत्तरानुसन्धानकाले प्रोफेसरप्रग्ना आई पटेल इत्यनया सह मिलित्वा द्विसहस्रतमे वर्षे प्रकाशिते ऐतिहासिकानुसन्धाने पी ए एक्स नव जीनस्य जन्मजातदन्ताभावेन सह सम्बन्धस्थापने महत्त्वपूर्णां भूमिकां निर्वहितवान्। नेचर जेनेटिक्स इति प्रतिष्ठितवैज्ञानिकपत्रिकायां प्रकाशितेन तेन अध्ययनेन मानवदन्तविकासस्य आनुवंशिकीविज्ञानस्य अवबोधाय नूतना दिशा प्रदर्शिता। वर्तमानम् अनुसन्धानं तस्यैव वैज्ञानिकपरम्परायाः आधुनिकसमग्रबहुआयामिक ओमिक्स प्रौद्योगिकीनां माध्यमेन विकासं करोति।
अस्य अनुसन्धानस्य सफलतायां काशीहिन्दूविश्वविद्यालयस्य आयुर्विज्ञानसंस्थानस्य चिकित्सकानां डा नेहावर्मा, डा राजेशबंसल तथा डा विनयकुमारश्रीवास्तव इत्येषामपि महत्त्वपूर्णं योगदानम् आसीत्। तैः रोगिणां परिचये, नैदानिकमूल्याङ्कने, दन्तलक्षणविश्लेषणे तथा जीनस्वरूपरोगलक्षणसम्बन्धस्थापने महत्त्वपूर्णा भूमिका निर्वहिता। तथा च डा चन्द्रादेव्या प्रयोगात्मककार्ये, दत्तांशविश्लेषणे, परिणामव्याख्याने तथा समग्रबहुआयामिक ओमिक्स दत्तांशस्य एकीकरणे उल्लेखनीयं योगदानं दत्तम्। शोधार्थिनी रिमझिमकुमारी अपि अस्य अध्ययनस्य उन्नयने सक्रियतया संलग्ना अस्ति।
विशेषज्ञानां मतम् अस्ति यत् एतत् अनुसन्धानं जन्मजातदन्ताभावस्य उत्तमावबोधविकासस्य सह भविष्यमाणे आनुवंशिकपरीक्षणे, शीघ्रनिदाने तथा वैयक्तिकचिकित्सापद्धतीनां विकासे मीलस्तम्भरूपेण सिद्धं भविष्यति।
Hindusthan Samachar / Dheeraj Maithani