Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जूनमासः (हि.स.)। दिल्ली-सर्वकारस्य मुख्यमन्त्री रेखा-गुप्ता रविवासरे राजधानीस्थेषु विभिन्नस्थानेषु आयोजितेषु त्रिषु ‘विकसित-भारत-सङ्कल्प-सम्मेलनेषु’ सहभागिनी अभवत्। एतानि सम्मेलनानि प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे सेवा, सुशासनम्, विकासः तथा जनकल्याणस्य द्वादश-गौरवपूर्ण-वर्षाणां सम्पन्नतायाः उपलक्ष्ये आयोजिताः आसन्। अस्मिनवसरे मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे भारतेन विकासे जनहितैषिषु योजनासु च अभूतपूर्वाः ऐतिहासिकाश्च उपलब्धयः प्राप्ताः। ते निरवकाशं निरन्तरं राष्ट्रसेवां कुर्वन्तः भारताय वैश्विकस्तरे नूतनां सुदृढां च परिचितिम् अददुः।
मुख्यमन्त्री शालीमार-बाग-विधानसभा-क्षेत्रस्य पीतमपुरायाम्, शकूरबस्ती-विधानसभा-क्षेत्रस्य वेस्ट-एन्क्लेव-प्रदेशे तथा मुस्तफाबाद-विधानसभा-क्षेत्रस्य महालक्ष्मी-विहारे अपि ‘विकसित-भारत-सङ्कल्प-सम्मेलने’ सहभागिनी अभवत्। पीतमपुरायां सा जनप्रतिनिधिभिः, कार्यकर्तृभिः तथा बहुसंख्यया उपस्थितैः नागरिकैः सह प्रधानमन्त्रिणः लोकप्रियस्य मासिक-रेडियो-कार्यक्रमस्य ‘मन की बात’ इत्यस्य सामूहिक-श्रवणम् अकरोत्।
सम्मेलनान् सम्बोधयन्ती मुख्यमन्त्री अवदत् यत् माननीय-प्रधानमन्त्रिणः नेतृत्वे गतद्वादशवर्षेषु देशः डिजिटल-इण्डिया, आधुनिकाधारभूत-संरचना, रेलमार्गाः, द्रुतमार्गाः, विमानस्थानकानि, रक्षा-उत्पादनम्, पारदर्शी-शासनम् तथा प्रत्यक्ष-लाभ-हस्तान्तरण-व्यवस्था इत्यादिषु अनेकेषु क्षेत्रेषु अभूतपूर्वां प्रगतिम् अधिगतवान्। ‘सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः’ इति सिद्धान्तः अद्य देशस्य विकासस्य मूलाधारः अभवत्। दिल्ली-सर्वकारोऽपि तेनैव सेवाभावेन निरन्तरम् अग्रे गच्छति।
मुख्यमन्त्री अवदत् यत् दिल्ली-सर्वकारः प्रधानमन्त्रिणः जलसंरक्षण-‘कैच द रेन’ अभियानस्य, ‘वोकल फॉर लोकल’ अभियानस्य तथा प्रकृति-संरक्षणस्य दृष्टेः भूमौ प्रभावी-क्रियान्वयनाय पूर्णतया प्रतिबद्धः अस्ति।
राजधान्याः विकासस्य रूपरेखां प्रस्तौतुं सा स्पष्टतया अवदत् यत् दिल्ली-सर्वकारस्य गठनानन्तरं सर्वेषु ७० विधानसभा-क्षेत्रेषु राजनैतिक-भेदभावं विना विकासकार्याणि तीव्रगत्या प्रवर्तितानि। मार्गाणां, मल-जल-निकास-व्यवस्थायाः, पेयजलस्य, विद्यालयानां तथा चिकित्सालयानां सुदृढीकरणार्थं युद्धस्तरे कार्यं प्रचलति। केन्द्र-सर्वकारस्य साहाय्येन दीर्घकालात् अवरुद्धाः परियोजनाः शीघ्रतया सम्पन्नाः क्रियमाणाः सन्ति।
यमुना-नद्याः पुनर्जीवनस्य स्वच्छता-अभियानस्य च उल्लेखं कुर्वती मुख्यमन्त्री अवदत् यत् सर्वकारः अस्य वैज्ञानिक-दीर्घकालिक-समाधानाय कार्यं करोति। यमुनायां पतन्तः सर्वे प्रमुख-नालाः चरणबद्धरीत्या नियन्त्रिताः क्रियन्ते तथा नूतनानि मलजल-शोधन-संयन्त्राणि स्थाप्यन्ते। नगर-निगमाय दिल्ली-नगरस्य स्वच्छता-व्यवस्थां सुदृढां कर्तुं २,८०० कोटि-रूप्यकाणां विशेष-वित्तीय-साहाय्यं प्रदत्तम् अस्ति। मार्गेषु आधुनिक-स्वच्छता-यन्त्राणां संख्यापि निरन्तरं वर्धते। अस्माकं सर्वकारस्य एकमात्रम् उद्देश्यम् अस्ति—नागरिकस्य धर्मं, जातिं वा पन्थानं न दृष्ट्वा प्रत्येकस्य जीवनं श्रेष्ठतरं कर्तुं विकासस्य मुख्यधारया च संयोजयितुम्।
मुख्यमन्त्री दृढविश्वासं व्यक्तवती यत् प्रधानमन्त्रिणः ‘विकसित-भारत-२०४७’ इति दृष्टेः अनुरूपं दिल्ली-सर्वकारः ‘विकसित-दिल्ली’ इति सङ्कल्पस्य साकारणाय निरन्तरं कार्यं करिष्यति। केन्द्र-सर्वकारस्य दिल्ली-सर्वकारस्य च समन्वित-प्रयत्नैः जनसहभागित्या च राष्ट्रस्य राजधानी विकासस्य नूतनान् आयामान् स्थापयिष्यति। सा सर्वान् नागरिकान् प्रधानमन्त्रिणः प्रेरणादायक-विचारान् स्वजीवने अङ्गीकर्तुं राष्ट्रनिर्माणस्य अस्मिन् महाअभियाने सक्रियतया योगदानं दातुं च आहूतवती।
मुख्यमन्त्री अवदत् यत् दिल्ली-सर्वकारः राजधानीमध्ये विश्वस्तरीय-सार्वजनिक-परिवहन-व्यवस्थायाः विकासाय पूर्णतया प्रतिबद्धः अस्ति। अस्याः योजनायाः अन्तर्गतं ४ जुलाईमासे ३०० नूतनानां आधुनिकानां वातानुकूलित-विद्युत्-बसयानानां भव्य-लोकार्पणं भविष्यति। पर्यावरण-संरक्षणस्य अस्यैव अभियानस्य निरन्तरतायै ७ जुलाईमासतः सम्पूर्ण-देहल्यां ७० लक्ष पादपारोपणस्य विशाल-महा-अभियानम् अपि प्रारभ्यते।
Hindusthan Samachar / Divya Ranjan