कोलकाता-स्थिते कालीघाट-काली-मन्दिरे अनुपम-खेरेण पूजार्चना कृता, स्वास्थ्य-सुख-शान्त्योः कामना कृता
कोलकातानगरम्, २८ जूनमासः (हि.स.)। कोलकाता-स्थिते प्रसिद्धे कालीघाट-काली-मन्दिरे बालीवुड-अभिनेता अनुपम-खेरः दर्शनं कृत्वा मातुः कालीदेव्याः समीपे स्वास्थ्यस्य, सुखस्य शान्तेश्च कामनाम् अकरोत्। अभिनेता रविवासरे स्वस्य आधिकारिक-सामाजिक-माध्यम-लेखायां
अनुपम खेर


कोलकातानगरम्, २८ जूनमासः (हि.स.)। कोलकाता-स्थिते प्रसिद्धे कालीघाट-काली-मन्दिरे बालीवुड-अभिनेता अनुपम-खेरः दर्शनं कृत्वा मातुः कालीदेव्याः समीपे स्वास्थ्यस्य, सुखस्य शान्तेश्च कामनाम् अकरोत्। अभिनेता रविवासरे स्वस्य आधिकारिक-सामाजिक-माध्यम-लेखायां मन्दिर-भ्रमणस्य चित्राणि स्वानुभवान् च सहभागम् अकरोत्।

अनुपम-खेरः स्वस्य लेखे अलिखत् यत् यत् पवित्रं स्थानं शताब्द्यः यावत् श्रद्धायाः, आशायाः, अश्रूणां प्रार्थनानां च साक्षी अभवत्, तादृशे स्थले स्थित्वा गहन-शान्तेः अनुभूतिः जायते। तेन उक्तं यत् अद्य तस्मै पवित्रे कालीघाट-काली-मन्दिरे मातुः कालीदेव्याः आशीर्वादं प्राप्तुं सौभाग्यं प्राप्तम्।

अभिनेता अग्रे अलिखत् यत् तेन स्वस्य सर्वेषां जनानां च कृते शक्तेः, कृतज्ञतायाः तथा स्वास्थ्यस्य, सुखस्य शान्तेश्च प्रार्थना कृता। तेन एतदपि उक्तं यत् भारतस्य सौन्दर्यं केवलं तस्य विविधतायामेव निहितं नास्ति, अपितु तस्य प्राचीन-मन्दिरेषु तेषु सम्बद्धायां श्रद्धायामपि निहितम् अस्ति, यत्र वंशेभ्यः वंशपर्यन्तं जनाः भक्त्या आगच्छन्ति।

कालीघाट-काली-मन्दिरं भारतस्य एकपञ्चाशत्-शक्तिपीठेषु अन्यतमं मन्यते। धार्मिक-मान्यतानुसारम् एतदेव तत् स्थानम् अस्ति यत्र देवी-सत्याः दक्षिण-पादाङ्गुली पतिता आसीत्।

उल्लेखनीयं यत् अनुपम-खेरः प्रायः षड्विंशति-वर्षाणाम् अनन्तरं बाङ्ग्ला-चलच्चित्र-जगति निर्माता-रूपेण पुनरागच्छति। तस्य नूतनया ‘शुरु थेके शुरू’ इति चलच्चित्रेण एतत् पुनरागमनं भविष्यति। अस्मात् पूर्वं सः १९९८ तमे वर्षे ‘बारीवाली’ इति बाङ्ग्ला-चलच्चित्रे कार्यम् अकरोत्।

अस्य परियोजनायाः विषये तेन उक्तं यत् बाङ्ग्ला-चलच्चित्र-जगति पुनरागमनं तस्य कृते भावनापूर्णः विशेषश्च अनुभवः अस्ति। तेन बङ्गालस्य समृद्ध-सांस्कृतिक-परम्परायाः, साहित्यस्य, सङ्गीतस्य, कलायाश्च प्रशंसा कृता तथा एतत् भारतीय-चलच्चित्र-जगतः अमूल्यं योगदानम् इति निरूपितम्।

Hindusthan Samachar / Divya Ranjan