Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, २९ जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य मुख्य-प्रवक्ता राकेश-जमवालः तथा प्रदेश-माध्यम-प्रभारी रणधीर-शर्मा सोमवासरे काङ्ग्रेस-सर्वकारस्य मन्त्रिभिः भाजपापक्षस्य विरुद्धं कृतान् आरोपान् निराधारान् जनभ्रामकान् च अवदताम्। ताभ्याम् उक्तं यत् प्रदेश-सर्वकारः स्वकीयाभिः विफलताभिः, आर्थिक-दुर्दशया, भ्रष्टाचारेण तथा प्रशासनिक-अव्यवस्थया जनध्यानं विचालयितुं विपक्षस्य विरुद्धं निराधारान् आरोपान् करोति।
भाजपापक्षस्य नेतारौ आरोपितवन्तौ यत् प्रदेशे अधिकारिणां कर्मचारीणां च उपरि राजनैतिक-प्रभावं स्थापयित्वा नियम-विरुद्धाः निर्णयाः कारिताः सन्ति। तयोः मते बहुषु प्रकरणेषु अधिकारिणः तादृशानाम् आदेशानां पालनाय विवशीक्रियन्ते, ये न प्रशासनिक-दृष्ट्या समीचीनाः सन्ति, न च जनहिताय।
राकेश-जमवालः रणधीर-शर्मा च प्रदेशस्य अधिकारिणः कर्मचारीणश्च संविधानस्य, अधिनियमस्य स्वविवेकस्य च अनुसारेण कार्यं कर्तुम् आह्वानम् अकुरुताम्। ताभ्याम् उक्तं यत् अधिकारिणः केवलं सर्वकारं प्रति न, अपितु संविधानस्य जनतायाश्च प्रति उत्तरदायिनः सन्ति। अतः सर्वे निर्णयाः निष्पक्षतया, पारदर्शितया अधिनियम-अनुसारं च भवितुमर्हन्ति।
भाजपापक्षस्य नेतारौ काङ्ग्रेस-सर्वकारस्य उपरि लोकतान्त्रिक-संस्थानां दुर्बलीकरणस्य आरोपमपि कृतवन्तौ। ताभ्याम् उक्तं यत् नगर-परिषत्सु, नगर-पञ्चायतिषु, खण्ड-समितिषु तथा जनपद-परिषत्सु यत्र भाजपापक्ष-समर्थित-प्रत्याशिनाम् अध्यक्ष-उपाध्यक्षयोः निर्वाचितयोः सम्भावना वर्तते, तत्र निर्वाचनं जानन् विलम्ब्यते। यत्र तु काङ्ग्रेस-पक्षस्य अनुकूला स्थितिः वर्तते, तत्र निर्वाचन-प्रक्रिया शीघ्रं सम्पाद्यते।
ताभ्यां जनपदाधीशान् उपमण्डल-अधिकारिणश्च अनुरोधः कृतः यत् ते सर्वथा राजनैतिक-प्रभावात् मुक्ताः भूत्वा अधिनियमानुसारम् अध्यक्ष-उपाध्यक्षयोः निर्वाचनस्य तिथयः शीघ्रं घोषयन्तु। तयोः मते लोकतन्त्रे जनादेशस्य सम्मानं सर्वोपरि भवेत्।
भाजपापक्षस्य नेतारौ अवदताम् यत् सत्ता स्थायिनी न भवति तथा राजनैतिक-प्रभावेन कृताः नियम-विरुद्धाः निर्णयाः भविष्ये अन्वेषणस्य परिधिम् आगन्तुं शक्नुवन्ति। ताभ्याम् अधिकारिणः स्वकर्तव्यस्य निष्पक्षतया प्रामाणिकतया च निर्वहनं कर्तुम् आहूताः।
राकेश-जमवालः रणधीर-शर्मा च कथनम् अकुरुताम् यत् प्रदेशस्य जनता काङ्ग्रेस-सर्वकारस्य कार्यशैल्या निराशा जाता अस्ति। ताभ्याम् आरोपितं यत् भ्रष्टाचारस्य, आर्थिक-कुप्रबन्धनस्य, राजनैतिक-प्रतिशोधस्य तथा प्रशासनिक-हस्तक्षेपस्य कारणात् सर्वकारस्य जनाधारः दुर्बलः अभवत्। तयोः मते जनता लोकतान्त्रिक-रीत्या अस्य उत्तरं दास्यति तथा प्रदेशे सुशासनस्य, पारदर्शितायाः विकासस्य च राजनीतिं पुनः प्रतिष्ठापयिष्यति।
Hindusthan Samachar / Divya Ranjan