विकसित भारत-जी राम जी इत्येषा योजना प्रथमजुलाईतः आरप्स्यते
125 दिवसानां जीविकायाःअनुबंधः , 318 प्रकारकेभ्यः कार्येभ्यः मिलिष्यति ग्रामीणेभ्यो जीविका जोधपुरम्, 29 जूनमासः (हि.स.)। महात्मागान्धी राष्ट्रियग्रामीणरोजगारगारण्टीयोजना मनरेगा इत्यस्याः एकजुलाईदिनाङ्कात् नूतनेन नाम्ना नूतनेन स्वरूपेण च विकसितभारत
jodhpur


125 दिवसानां जीविकायाःअनुबंधः , 318 प्रकारकेभ्यः कार्येभ्यः मिलिष्यति ग्रामीणेभ्यो जीविका

जोधपुरम्, 29 जूनमासः (हि.स.)। महात्मागान्धी राष्ट्रियग्रामीणरोजगारगारण्टीयोजना मनरेगा इत्यस्याः एकजुलाईदिनाङ्कात् नूतनेन नाम्ना नूतनेन स्वरूपेण च विकसितभारत जी राम जी योजना इति रूपेण क्रियान्वयनम् आरभ्यते। योजनायाः अन्तर्गतं अधुना ग्रामीणपरिवारेभ्यः शतदिवसानां स्थाने पञ्चविंशत्यधिकशतं अर्थात् १२५ दिवसानां रोजगारः प्रदास्यते। तथा च योजनायां विकासनिर्माणसम्बद्धानि ३१८ प्रकाराणि कार्याणि समावेशितानि सन्ति येन ग्रामीणक्षेत्रेषु रोजगारावसराणां विस्तारः भविष्यति।

जिलापरिषदः मुख्यकार्यकारी अधिकारी आशीषकुमार मिश्रः अवदत् यत् राज्यसर्वकारस्य उद्देश्यं ग्रामीणपरिवारेभ्यः अधिकाधिकं रोजगारं प्रदातुम् अस्ति। सः अवदत् यत् सम्प्रति जनपदे प्रायः पञ्चषष्टिसहस्राणि श्रमिकाः कार्यरताः सन्ति। जनपदे पञ्चलक्षाणि त्रिनवतिसहस्राणि सप्तशतानि अष्ट जॉबकार्डधारकाः पञ्जीकृताः सन्ति। योजनायाः प्रभावीक्रियान्वयनार्थं प्रत्येकस्मिन् ग्रामपञ्चायते पर्याप्तानि कार्याणि स्वीकृतानि भविष्यन्ति तथा श्रमिकेभ्यः रोजगारः प्रदास्यते।

सः अवदत् यत् योजनायाः अन्तर्गतं इन्टरलॉकिङ्ग मार्गाः ग्रेवल मार्गाः डामर मार्गाः सामुदायिकखाला चतुर्दिक्प्राकारः कैटलशेड फार्मपॉण्ड टांका इत्यादयः सहिताः ३१८ प्रकाराः कार्याः अनुमोदिताः सन्ति। ग्रामीणक्षेत्रेषु परम्परागतकच्चकार्याणां सीमितत्वात् पक्कनिर्माणकार्येषु अपि श्रमिकेभ्यः रोजगारः प्रदास्यते।

सः अवदत् यत् नियमानुसारं कस्यचित् कच्चकार्यस्य सम्पन्नतायाः अनन्तरं पञ्चवर्षपर्यन्तं तत् पुनः स्वीकर्तुं न शक्यते। अतः स्थानीयस्तरे नूतनकार्याणां परिचयः स्वीकृतिश्च सुनिश्चितीक्रियते येन अतिरिक्तरोजगारदिवसाः प्रदातुं शक्येरन्। मुख्यकार्यकारी अधिकारी अवदत् यत् ग्रामीणविकासविभागस्य निर्देशानुसारं ग्रामपञ्चायतेभ्यः प्राप्ताः प्रस्तावाः युक्तधारा पोर्टले उपारोप्यन्ते। त्रिंशत् जूनदिनाङ्कात् पूर्वं मस्टररोल निर्गत्य श्रमिकान् कार्यस्थलेषु आमन्त्रयितुं प्रक्रिया पूर्णा भविष्यति।

सः अवदत् यत् जनपदस्य ६१६ ग्रामपञ्चायतानां ए बी सी इति श्रेणीषु श्रेणीनिर्धारणं भविष्यति। प्रति जॉबकार्ड रोजगारदिवसाः पञ्चायतस्य कार्यप्रदर्शनम् जिलामुख्यालयात् दूरी च इत्यादीनां विभिन्नमानदण्डानां आधारेण पञ्चायतानां मूल्याङ्कनं कृत्वा राजस्वस्य आवंटनं भविष्यति। मिश्रः अवदत् यत् विकसितभारत जी राम जी योजनायाः सुचारुक्रियान्वयनार्थं सर्वेभ्यः विकासाधिकाऱिभ्यः आवश्यकनिर्देशाः प्रदत्ताः सन्ति।

प्रत्येकस्मिन् ग्रामपञ्चायते न्यूनातिन्यूनम् एकं कार्यं स्वीकृत्य श्रमिकाः नियोजिताः भविष्यन्ति। सः अवदत् यत् योजनायाः अन्तर्गतं कार्यस्थलेषु छाया पेयजलम् चिकित्सासामग्री पालना इत्यादयः सुविधाः प्रदास्यन्ते तथा च बायोमेट्रिक उपस्थित्या डिजिटल निरीक्षणेन च कार्याणां नियमितनिगरानी अपि सुनिश्चितीक्रियते।

Hindusthan Samachar / Dheeraj Maithani