Enter your Email Address to subscribe to our newsletters

देहरादूनम्, २९ जूनमासः (हि.स.)। केन्द्रीय-सर्वकारेण प्रधानमन्त्री-कृषि-सिञ्चन-योजनाया: अन्तर्गतस्य जलग्रहण-विकास-घटक-२.० इत्यस्य प्रभावी-समयबद्ध-क्रियान्वयनार्थम् उत्तराखण्ड-राज्याय विशेष-सहयोगः प्रदत्तः।
केन्द्रीय-कृषि-कृषक-कल्याण-ग्रामीण-विकास-मन्त्री शिवराजसिंह-चौहानः मुख्यमन्त्रिणे पुष्करसिंह-धामी-महोदयाय प्रेषिते पत्रे योजनायाः प्रगतिं तथा अतिरिक्त-वित्तीय-सहायतायाः विवरणं प्रदत्तवान्। मुख्यमन्त्री अस्य कृते केन्द्रीय-मन्त्रिणं प्रति कृतज्ञतां प्रकटितवान्।
केन्द्रीय-मन्त्रिणः अनुसारेण २०२१-२२ तः २०२५-२६ पर्यन्तस्य परियोजना-अवधौ उत्तराखण्डे १५ जलग्रहण-विकास-परियोजनाः स्वीकृताः सन्ति। एताभिः परियोजनाभिः ०.८४ लक्ष-हेक्टेयर-क्षेत्रस्य उपचारः भविष्यति। एतासां परियोजनानां कुल-व्ययः २३२.२६ कोटि-रूप्यकाणि अस्ति, यस्मिन् केन्द्रीय-सर्वकारस्य अंशः २०९.०३ कोटि-रूप्यकाणि निर्धारितानि सन्ति। अधुना यावत् राज्याय १०६.०५ कोटि-रूप्यकाणां केन्द्रीय-सहायता प्रदत्ता अस्ति।
पत्रे उक्तम् यत् योजनायाः मूल-अवधिः २०२६ तमवर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्ता आसीत्, किन्तु अवशिष्ट-कार्याणां गुणवत्तापूर्ण-समापनार्थं भारत-सर्वकारेण परियोजना-अवधिः २०२६ तमवर्षस्य सेप्टेम्बरमासपर्यन्तम् अस्थायिरूपेण विस्तारितः।
केन्द्रीय-मन्त्री अवदत् यत् २०२६-२७ वित्तीय-वर्षस्य प्रथम-द्वितीय-त्रैमासिकयोः कृते उत्तराखण्डाय ३१.५८ कोटि-रूप्यकाणां अतिरिक्ता केन्द्रीय-सहायता स्वीकृता अस्ति। तेषु १५.७९ कोटि-रूप्यकाणां प्रथम-पर्याय: निर्गत' अस्ति, येन परियोजनानां कार्याणि निर्बाधरूपेण प्रवर्तिष्यन्ते।
शिवराजसिंह-चौहानः पत्रे एतदपि उल्लिखितवान् यत् प्रस्तावितस्य डब्ल्यूडीसी-पीएमकेएसवाई ३.० अन्तर्गतं राज्येभ्यः नवीन-परियोजनानां आवंटनं तेषां कार्य-प्रदर्शनस्य आधारेण भविष्यति। अस्मिन् समयबद्ध-क्रियान्वयनम्, केन्द्रीय-सहायतायाः प्रभावी-उपयोगः तथा निर्धारित-समये कार्य-समापनम् इत्यादयः मानदण्डाः प्रमुखतया ग्राह्याः भविष्यन्ति।
सः मुख्यमन्त्रिणं सम्बद्ध-विभागेभ्यः क्षेत्रीय-अधिकारिभ्यश्च आवश्यक-निर्देशान् प्रदातुं अनुरोधितवान्, येन स्वीकृत-परियोजनानां समयबद्ध-क्रियान्वयनं सुनिश्चितं भवेत् तथा उपलब्धा केन्द्रीय-सहायता प्रभावी-पारदर्शी-रीत्या उपयुज्येत। सहैव भूमिः-संसाधन-विभागस्य पक्षतः उत्तराखण्ड-सर्वकाराय सर्वथा प्राविधिक-संस्थागत-सहयोगस्य आश्वासनमपि दत्तम्।
Hindusthan Samachar / Divya Ranjan