Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, जूनमासस्य २९ दिनाङ्कः। उत्तराखण्ड-राज्यस्य सैनिककल्याणमन्त्री गणेशजोशी सोमवासरे अमरबलिदानिनः मेजर-भूपेन्द्रकण्डारिणः त्रयोविंशतितमे पुण्यतिथ्यवसरे तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। अस्मिन् अवसरे सः अवदत् यत् तस्य सर्वोच्चबलिदानं देशवासिनः सदैव राष्ट्रसेवायै, कर्तव्यनिष्ठायै तथा देशभक्तये प्रेरयिष्यति।सैनिककल्याणमन्त्री गणेशजोशी अद्य हाथीबड़कला-स्थिते शहीद्द्वारे उपस्थाय बलिदानी-मेजर-कण्डारिणः चित्रे पुष्पाञ्जलिम् अर्पितवान् तथा तस्य अदम्यसाहसं, शौर्यं, राष्ट्राय समर्पितं सर्वोच्चबलिदानं च प्रणम्य सम्मानितवान्।मन्त्री अवदत् यत् मातृभूमेः रक्षणार्थं स्वप्राणान् समर्पणं कृतवन्तः वीरसैनिकाः राष्ट्रस्य कृते सदैव पूजनीयाः, राष्ट्रं च तान् प्रति कृतज्ञम् अस्ति। तेषां त्यागः समर्पणं च अग्रिमवंशानां कृते प्रेरणास्रोतः भविष्यति। सः अपि उक्तवान् यत् उत्तराखण्डः वीरभूमिः अस्ति, अत्रत्यैः सैनिकैः देशस्य सुरक्षायै अखण्डतायै च सर्वदा अद्वितीयं साहसं प्रदर्शितम्। राज्यसर्वकारः बालिदानिनां सम्मानाय तेषां परिवारजनानां कल्याणाय च निरन्तरं प्रतिबद्धः अस्ति।
श्रद्धाञ्जलिकार्यक्रमे उपस्थितैः अपि जनैः बलिदानी-मेजर-भूपेन्द्रकण्डारिणे श्रद्धासुमनानि अर्पितानि तथा द्विमिनिटपर्यन्तं मौनं धारयित्वा तस्मै श्रद्धाञ्जलिः समर्पिता। अस्मिन् अवसरे बलिदानिनः पिता गजेन्द्रसिंहकण्डारी, जनपदसैनिककल्याणाधिकारी कर्नल ओ.पी.फरस्वाणः (सेवानिवृत्तः), अशोक-गुप्तः, मुकेश-अग्रवालः, सी.एस.नेगी इत्यादयः बहवः गणमान्याः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan