मुख्यमंत्री एकलमहिलास्वजीविकायोजनया 30 महिलाः संजाताः आत्मनिर्भराः
नैनीतालम्, 03 जूनमासः (हि.स.)।मुख्यमन्त्रिणः पुष्करसिंहधामिनो नेतृत्वे सञ्चालिता मुख्यमन्त्री एकलमहिलास्वजीविकायोजना नैनीतालजनपदस्य एकलमहिलानां कृते आत्मनिर्भरतायाः सशक्तमाध्यमं भवति। एषा योजना अविवाहितानां तलाकप्राप्तानां निराश्रितानां दिव्याङ्गम
एक महिला उद्यमी के पशु पालन का निरीक्षण करने पहुंची विभागीय अधिकारी।


नैनीतालम्, 03 जूनमासः (हि.स.)।मुख्यमन्त्रिणः पुष्करसिंहधामिनो नेतृत्वे सञ्चालिता मुख्यमन्त्री एकलमहिलास्वजीविकायोजना नैनीतालजनपदस्य एकलमहिलानां कृते आत्मनिर्भरतायाः सशक्तमाध्यमं भवति। एषा योजना अविवाहितानां तलाकप्राप्तानां निराश्रितानां दिव्याङ्गमहिलानां च आर्थिकसशक्तीकरणं कृत्वा ताः स्वरोजगारेण सह संयोजयितुं स्वस्य उद्देश्यं सफलतया पूरयति।

प्राप्तसूचनानुसारं योजनायाः अन्तर्गतं लाभार्थिनीभ्यः तासां परियोजनाव्ययस्य पञ्चसप्ततिप्रतिशतपर्यन्तं अधिकतमं द्विलक्षरूप्यकपरिमितं वित्तीयअनुदानं प्रदीयते। अवशिष्टा पञ्चविंशतिप्रतिशतराशिः लाभार्थिनीभिः स्वयमेव वह्यते।

बालविकासपरियोजनाधिकारी शिल्पाजोशी इत्यनया उक्तं यत् नैनीतालजनपदे अधुना पर्यन्तं त्रिंशत् महिलाभ्यः योजनायाः लाभः प्राप्तः। तासु सप्तदशमहिलाभिः गोमहिषीअजापालनादयः पशुपालनव्यवसायाः आरब्धाः। त्रयोदशमहिलाभिः च विभिन्नलघुउद्योगाः स्थापयित्वा स्वरोजगारः स्वीकृतः।

तया उक्तं यत् फरवरीमासे योजनायाः प्रथमकिस्तिः निर्गतायाः अनन्तरं महिलासु उत्साहस्य आत्मविश्वासस्य च वातावरणं जातम्। शासकीयसहयोगस्य समुचितमार्गदर्शनस्य च बलात् लाभार्थिनीमहिलाः आर्थिकरूपेण सशक्ताः भूत्वा स्वपरिवाराणां आयवृद्धौ योगदानं ददति।

योजनया सम्बद्धानां महिलानां सफलता एतत् दर्शयति यत् अवसरस्य सहयोगस्य च प्राप्तौ महिलाः न केवलं आत्मनिर्भराः भवितुं शक्नुवन्ति अपितु समाजे सम्मानजनकां परिचितिमपि स्थापयितुं समर्थाः भवन्ति। मुख्यमन्त्रिणः अस्याः पहलायाः माध्यमेन अनेकासां महिलानां जीवने सकारात्मकपरिवर्तनं जातम्। ताभ्यः आत्मविश्वासेन सह अग्रे गन्तुं नूतनः अवसरः अपि प्राप्तः।

Hindusthan Samachar / Dheeraj Maithani