आमआदमीपार्टीद्वारा निगमायुक्ताय लिखितं पत्रं, साकेत भवनघटनायां निष्पक्षपरिशीलनं कार्यवाही याचिता
नवदिल्ली, 03 जूनमासः (हि.स.)। साकेतस्य सैदुलाजाब क्षेत्रे पञ्चमञ्जिलभवनपतनघटनां प्रति दिल्लीनगरनिगमे विपक्षनेता तथा आम आदमी पार्टी दलस्य नेता अंकुश नारंग महोदयेन बुधवासरे निगमायुक्ताय पत्रं संप्रेष्य निष्पक्षान्वेषणस्य तथा दोषिणाम् अधिकारिणां विर
दिल्ली नगर निगम (एमसीडी) में नेता प्रतिपक्ष अंकुश नारंग


नवदिल्ली, 03 जूनमासः (हि.स.)।

साकेतस्य सैदुलाजाब क्षेत्रे पञ्चमञ्जिलभवनपतनघटनां प्रति दिल्लीनगरनिगमे विपक्षनेता तथा आम आदमी पार्टी दलस्य नेता अंकुश नारंग महोदयेन बुधवासरे निगमायुक्ताय पत्रं संप्रेष्य निष्पक्षान्वेषणस्य तथा दोषिणाम् अधिकारिणां विरुद्धे कठोरकार्यवाह्याःयाचना कृता।

अंकुश नारंगेन पत्रे लिखितं यत् साकेतभवनदुर्घटना केवलं दुर्घटना नास्ति, अपितु निगमस्य भ्रष्टाचारस्य, लापरवाह्याः तथा अधिकारिणां मिलितरणनीतेः परिणामः अस्ति।

तेन उक्तं यत् अद्य निगमायुक्ताय पत्रं प्रेष्य सम्पूर्णप्रकरणस्य निष्पक्षपरिशीलनस्य, दोषिणाम् अधिकारिणां उत्तरदायित्वनिर्धारणस्य तथा तेषां विरुद्धे कठोरकार्यवाह्याः, पीडितपरिवाराणां कृते उचितमुआवजस्य तथा सम्पूर्णदिल्लीमध्ये जीर्णावैधभवनानां सर्वेक्षणस्य मागः कृता।

विपक्षनेता उक्तवान् यत् स्थानीयजनानां शिकायतानां तथा अवैधनिर्माणसम्बद्धसूचनानाम् उपस्थितौ अपि कार्यवाही न कृता, यस्य परिणामस्वरूपम् अद्य निर्दोषजनाः स्वप्राणान् त्यक्त्वा दुष्परिणामं भुक्तवन्तः।

अंकुश नारंगेन उक्तं यत् दिल्लीवासिनां प्राणैः सह क्रीडां कुर्वन्तः भ्रष्टाधिकारिणः तथा तेषां संरक्षणदातारः कस्यापि मूल्यस्य आधारेण क्षन्तव्याः न सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani