Enter your Email Address to subscribe to our newsletters

व्हाट्सएप संवादसहायकः आह्वानकेन्द्रम् चलदूरवाणीअनुप्रयोगः जालसंवादः कृत्रिमबुद्धिमत्ताआधारितप्रौद्योगिकी च माध्यमत्वेन उपभोक्तृभ्यः शीघ्रसमाधानं प्रदास्यन्ति।
हिसारः,03जूनमासः , (हि.स.) हरियाणासर्वकारस्य विशेषऊर्जासचिवस्य दक्षिणउत्तरहरियाणाविद्युत्वितरणनिगमयोः प्रबन्धनिदेशकस्य च विक्रमसिंहस्य निर्देशानुसारं दक्षिणहरियाणाविद्युत्वितरणनिगमेन स्वस्य शिकायतनिवारणप्रणाली अधिकसुदृढा आधुनिकी च कृता। उपभोक्तृभ्यः पारदर्शिसरलाङ्कीयसमयबद्धसेवाप्रदानेन निगमेन यूनिफाइड कंज्यूमर कंप्लेंट एंड सर्विस पोर्टल इति जालपुटं अत्याधुनिकसुविधाभिः सुसज्जितं कृतम्।
प्रबन्धनिदेशकः विक्रमसिंहः बुधवासरे उक्तवान् यत् आधुनिकप्रौद्योगिकीकृत्रिमबुद्धिमत्ताआधारितस्य अस्य केन्द्रीकृताङ्कीयमञ्चस्य माध्यमेन विद्युत्पूर्तिः मीटरप्रणाली बिलप्रणाली परिवादनिवारणं विविधसेवानुरोधाश्च एकीकृतरूपेण उपलब्धाः क्रियन्ते। उपभोक्तारः स्वीयशिकायताः पञ्जीकर्तुं तासां प्रगतिविषये सूचनां प्राप्तुं बिलसम्बद्धसेवानां लाभं ग्रहीतुं विविधअनुरोधान् अन्तर्जालमाध्यमेन सुलभतया कर्तुं शक्नुवन्ति।
तेन उक्तं यत् दक्षिणहरियाणाविद्युत्वितरणनिगमेन उपभोक्तृणां कृते बहुमाध्यमसम्पर्कव्यवस्था विकसिताऽस्ति। अस्याः व्यवस्थायाः माध्यमेन उपभोक्तारः स्वसुविधानुसारं विभिन्नमाध्यमैः सेवाः प्राप्नुवन्ति। विद्युत्सम्बद्धशिकायतानां सूचनानां च कृते उपभोक्तारः एकनवएकद्वय तथा अष्टादशशून्यशून्य एकअष्टशून्य चत्वारित्रिंशत्त्रिशतचतुस्त्रिंशत् आह्वानकेन्द्रसंख्ययोः सम्पर्कं कर्तुं शक्नुवन्ति।
एतदतिरिक्तं अष्टाष्टएकत्रिंशत्त्रिनवशतनवतिसप्तशून्याष्ट इति संख्यायां उपलब्धस्य व्हाट्सएप संवादसहायकस्य माध्यमेन शिकायतापञ्जीकरणं शिकायतास्थितिज्ञानं विद्युत्बिलविषयकसेवानां नवीनसंयोजनस्य अन्यसेवानां च जानकारीप्राप्तिः अपि शक्या अस्ति।
विद्युत्पूर्तिविघ्नस्य परिस्थितौ उपभोक्तृसुविधार्थं सप्तषष्टिनवअष्टसप्तपञ्चसप्तषष्ट्यष्ट इति मिस्डकॉलसेवा अपि उपलब्धा कृता अस्ति। पञ्जीकृतचलदूरवाणीसंख्यायाः माध्यमेन मिस्डकॉलदाने शिकायताः स्वतः पञ्जीकृताः भविष्यन्ति। एतेन उपभोक्तृभ्यः पृथकरूपेण शिकायतापञ्जीकरणस्य आवश्यकता न भविष्यति।
दक्षिणहरियाणाविद्युत्वितरणनिगमस्य सीएचएस चलदूरवाणीअनुप्रयोगस्य माध्यमेन उपभोक्तारः शिकायतापञ्जीकरणं शिकायतानुगमनं विविधसेवानुरोधानां लाभं च गृहस्थिताः एव प्राप्तुं शक्नुवन्ति। अयं अनुप्रयोगः निगमस्य अधिकारीभ्यः अपि शिकायतानां प्रभावीनिरीक्षणे विश्लेषणे समयबद्धसमाधानसुनिश्चिततायां च सहाय्यं करोति।
दक्षिणहरियाणाविद्युद्वितरणनिगमेन हमसे जुड़ें समाधान पाएं हमारा प्रयास आपका विश्वास इति सन्देशेन सह सर्वेभ्यः उपभोक्तृभ्यः आह्वानं कृतं यत् ते उपलब्धानां अङ्कीयसेवानाम् अधिकाधिकं उपयोगं कुर्वन्तु तथा कस्यापि विद्युत्सम्बद्धसमस्यायाः समाधानार्थं निर्धारितसहायतासंख्यानां अन्तर्जालमञ्चानां च एव उपयोगं कुर्वन्तु।
Hindusthan Samachar / Dheeraj Maithani