त्रिदिनानि दिल्ल्याम् असमस्य मुख्यमंत्री 20तः अधिकोपवेशनेषु सम्मिलितः : मार्घेरिटा
गुवाहाटी, 03 जूनमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा स्वस्य त्रिदिवसीयस्य नवदिल्लीप्रवासस्य समये केन्द्रसर्वकारस्य वरिष्ठनेतृभिः सह विंशत्यधिकासु महत्त्वपूर्णबैठकेषु सहभागी अभवत्। एतासु उपवेशनेषु प्रधानमन्त्री गृहमन्त्री वि
Union Minister Pabitra Margherita (Left) and Assam CM Dr Himanta Biswa Sarma with PM Narendra Modi (Right).


गुवाहाटी, 03 जूनमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा स्वस्य त्रिदिवसीयस्य नवदिल्लीप्रवासस्य समये केन्द्रसर्वकारस्य वरिष्ठनेतृभिः सह विंशत्यधिकासु महत्त्वपूर्णबैठकेषु सहभागी अभवत्। एतासु उपवेशनेषु प्रधानमन्त्री गृहमन्त्री विदेशमन्त्री डोनरमन्त्री च सहिताः अनेके वरिष्ठाः केन्द्रीयमन्त्रिणः उपस्थिताः आसन्।

केन्द्रीयमन्त्री पवित्रमार्घेरिटा बुधवासरे उक्तवान् यत् मुख्यमन्त्री डॉ सरमणा असमराज्यस्य समग्रविकासस्य तीव्रतावर्धनार्थं विभिन्नमन्त्रालयैः सह विस्तृतचर्चा कृता। उपवेशनेषु राज्ये प्रचलन्तीनां विकासपरियोजनानां प्रगतिविषये भविष्ये आरभ्यमाणानां परियोजनानां विषये च विशेषरूपेण विचारविमर्शः अभवत्।

तेन उक्तं यत् मुख्यमन्त्री निरन्तरं केन्द्रसर्वकारेण सह समन्वयं स्थापयित्वा असमराज्याय अधिकाधिकं विकासात्मकसहयोगं सुनिश्चितं कर्तुं प्रयत्नशीलः अस्ति। अस्मिन् समये आधारभूतसंरचनासु संपर्कव्यवस्थायां निवेशविषये तथा अन्येषु महत्त्वपूर्णक्षेत्रेषु अपि चर्चा अभवत्।

पवित्रमार्घेरिटा इत्यस्य अनुसारं एताभिः बैठकैः राज्यस्य केन्द्रसरकारस्य च मध्ये सहयोगः अधिकं सुदृढः भविष्यति। असमराज्ये विविधविकासपरियोजनानां शीघ्रक्रियान्वयनस्य मार्गः अपि प्रशस्तः भविष्यति।

-----------

Hindusthan Samachar / Dheeraj Maithani