बालकानां यूनां च प्रतिभा-प्रोत्साहनाय कला-संस्कृति-विभागः प्रतिबद्धः - डॉ.प्रमोदकुमारः
पटलिपुत्रम्, ०४ जूनमासः (हि.स.)। बिहार-ललितकला-अकादम्या आयोजितायाः अष्ट-दिवसीयायाः ‘ग्रीष्मकालीन-दृश्यकला-कार्यशाला-२०२६’ इत्यस्या: बुधवासरे शुभारम्भः अभवत्। कार्यशालायाः उद्घाटनं बिहार-राज्यस्य कला-संस्कृति-मन्त्री डॉ. प्रमोदकुमारः कृतवान्। उद्घा
कला संस्कृति मंत्री डॉ प्रमोद अपने सम्बोधन के दौरान


पटलिपुत्रम्, ०४ जूनमासः (हि.स.)। बिहार-ललितकला-अकादम्या आयोजितायाः अष्ट-दिवसीयायाः ‘ग्रीष्मकालीन-दृश्यकला-कार्यशाला-२०२६’ इत्यस्या: बुधवासरे शुभारम्भः अभवत्। कार्यशालायाः उद्घाटनं बिहार-राज्यस्य कला-संस्कृति-मन्त्री डॉ. प्रमोदकुमारः कृतवान्।

उद्घाटन-समारोहं सम्बोधयन् मन्त्री डॉ.प्रमोदकुमारः उक्तवान् यत् कला-संस्कृति-विभागः बालकानां यूनां च सृजनात्मक-प्रतिभानां प्रोत्साहनाय तेषां कृते समुचित-मञ्चस्य उपलब्ध्यर्थं च निरन्तरं प्रयतते। सः अवदत् यत् कला कस्यापि समाजस्य सांस्कृतिक-परिचयस्य समृद्ध्याः महत्त्वपूर्णं माध्यमम् अस्ति, तथा च युवा-वंश: तया सह संयोजनं कालस्य आवश्यकता अस्ति।

मन्त्रिणा उक्तं यत् बिहारस्य विविध-जनपदेषु कला-क्षेत्रे अपरिमिताः प्रतिभाः सन्ति, याभ्यः समुचितं मार्गदर्शनं, प्रशिक्षणं, अवसराः च प्रदातव्याः। विभागस्य उद्देश्यं तादृश्य: प्रतिभाः अन्विष्य तासां विकासाय अनुकूल-पर्यावरणस्य निर्माणम् अस्ति। सः अवदत् यत् राज्य-सर्वकारः कला-संस्कृत्योः संरक्षण-संवर्धनयोः कृते अनेकासु योजनासु कार्यं करोति।

अस्मिन् अवसरे तेन परामर्शः प्रदत्तः यत् भविष्ये न्यूनातिन्यूनम् एक-मास-परिमितायाः आवासीय-कला-कार्यशालायाः आयोजनं क्रियताम्, यस्यां बिहारस्य विविध-जनपदेभ्यः चयनिताः बालकाः युवा-कलाकाराश्च सहभागित्वं कुर्वन्तु। अनेन सहभागिनः विशेषज्ञ-कलाकारैः प्रशिक्षणं प्राप्तुं स्वकलायाः परिष्कारं कर्तुं च श्रेष्ठम् अवसरं प्राप्स्यन्ति।

डॉ. प्रमोदकुमारः उक्तवान् यत् एतादृशीसु आवासीय-कार्यशालासु सहभागिनां कृते निवास-भोजनादि-आवश्यक-सौविध्यानां व्यवस्थापनसम्बद्धस्य प्रस्तावस्य विषये विभागः गम्भीरतया विचारं करिष्यति। तस्य मतम् अस्ति यत् अनेन दूरस्थ-ग्रामीण-क्षेत्रेषु निवसन्तः प्रतिभासम्पन्नाः बालकाः अपि स्वकलात्मक-प्रतिभायाः विकासाय समानम् अवसरं प्राप्स्यन्ति।

मन्त्री अवदत् यत् राज्य-सर्वकारस्य लक्ष्यं कला-संस्कृति-क्षेत्रे नूतन-वंशस्य प्रोत्साहनं बिहारस्य समृद्ध-सांस्कृतिक-धरोहरस्य संवर्धनं च अस्ति। अस्यां दिशि विभागेन समये समये विविध-प्रशिक्षण-कार्यक्रमाः, कार्यशालाः तथा सांस्कृतिक-आयोजनानि च आयोजयिष्यन्ते।

अस्याम् अष्ट-दिवसीय-कार्यशालायां सहभागिभ्यः चित्रकला, रेखाङ्कनम्, वर्ण-संयोजनम् तथा दृश्यकलायाः विविध-विधीनां प्रशिक्षणं प्रदास्यते। सहैव अनुभवी-कलाकाराणां मार्गदर्शनेन स्वसृजनात्मक-क्षमतायाः विकासस्य अवसरः अपि प्रदास्यते।

आयोजकैः उक्तं यत् अस्याः कार्यशालायाः उद्देश्यं बालकेषु कला: प्रति रुचिं वर्धयितुं तथा तेषां सृजनात्मक-प्रतिभायै नूतनां दिशां प्रदातुम् अस्ति।

Hindusthan Samachar / Divya Ranjan