केंद्रं 10 सहस्रकोटिमिताय एटीएफमूल्यस्थिरीकरणसंबद्धाय कोषाय दत्ता सहमतिः
नवदिल्ली, 03 जूनमासः (हि.स)। पश्चिम एशियायां प्रवर्तमानसंकटस्य तथा वैश्विक ईंधनमूल्यानां तीव्रवृद्धेः मध्ये केंद्रीयमंत्रिमण्डलेन भारतीयविमानसेवानां कृते १०००० कोटिरूप्यकाणां एटीएफ मूल्यस्थिरीकरणकोषस्य अनुमोदनं कृतम्। अस्य मुख्योद्देश्यः विमानसंस
प्रधानमंत्री नरेन्द्र मोदी की अध्यक्षता में आयोजित कैबिनेट का जारी फोटो


नवदिल्ली, 03 जूनमासः (हि.स)।

पश्चिम एशियायां प्रवर्तमानसंकटस्य तथा वैश्विक ईंधनमूल्यानां तीव्रवृद्धेः मध्ये केंद्रीयमंत्रिमण्डलेन भारतीयविमानसेवानां कृते १०००० कोटिरूप्यकाणां एटीएफ मूल्यस्थिरीकरणकोषस्य अनुमोदनं कृतम्। अस्य मुख्योद्देश्यः विमानसंस्थानां यात्रिकाणां च ईंधनमूल्यवृद्धेः तीव्रप्रभावात् संरक्षणम् अस्ति।

सूचना एवं प्रसारणमन्त्री अश्विनी वैष्णव बुधवासरे पत्रकारवार्तायां उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनोऽध्यक्षतायां सम्पन्ने केंद्रीयमंत्रिमण्डलस्य अधिवेशने तेलविपणनकम्पनीभ्यः १० सहस्रकोटिरूप्यकाधिकस्य एकमुश्त राजस्वसहयोगस्य अनुमोदनं कृतम्। एषः सहयोगः अनुसूचितभारतीयविमानसेवानां घरेलु तथा अन्ताराष्ट्रिय संचालनार्थं एविएशन टर्बाइन फ्यूल इत्यस्य मूल्यस्थिरीकरणे सहायतार्थं प्रदास्यते।

वैष्णवेन उक्तं यत् एषा बजटीयसहायता पेट्रोलियम तथा प्राकृतिकगैसमन्त्रालयस्य अनुदानमाङ्गानां माध्यमेन तेलविपणनकम्पनीभ्यः ब्याजमुक्त अग्रिमरूपेण प्रदास्यते। एषा सहायता ओएमसी कम्पनीभ्यः तस्मात् दीयते यतः पश्चिम एशियासंकटकारणात् ईंधनमूल्येषु जाता तीव्रा अस्थिरता विमानसेवानां कृते एटीएफ मूल्यस्थिरीकरणे बाधां जनयति। अतः वर्तमानपरिस्थौ विमानसेवानां कृते एटीएफ मूल्यानि स्थिराणि स्थापयितुं एषा योजना सहायकाभविष्यति।

------------

Hindusthan Samachar / Dheeraj Maithani