एकेन एव कारयानेन मंडलीपोपवेशने प्राप्नुवन् त्रयो मंडलीयमंत्रिणः, शिवराज सिंहोऽवदत्- पेट्रोलियम पदार्थानां रक्षणं प्रयोजनम्
नव दिल्ली, 03 जूनमासः (हि.स.)।पश्चिमएशियासंघर्षस्य कारणेन प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य पेट्रोलियमोत्पादानां मितव्ययितायाः आह्वाने बुधवासरे केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंह चौहान, केन्द्रीयजलशक्तिमन्त्री सीआर पाटिल तथा केन्द्रीयकोय
केंद्रीय कृषि एवं किसान कल्याण मंत्री शिवराज सिंह चौहान, केंद्रीय जल शक्ति मंत्री सीआर पाटिल और केंद्रीय कोयला एवं खनन मंत्री जी किशन रेड्डी कार पूलिंग करके कैबिनेट बैठक में जाते हुए।


नव दिल्ली, 03 जूनमासः (हि.स.)।पश्चिमएशियासंघर्षस्य कारणेन प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य पेट्रोलियमोत्पादानां मितव्ययितायाः आह्वाने बुधवासरे केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंह चौहान, केन्द्रीयजलशक्तिमन्त्री सीआर पाटिल तथा केन्द्रीयकोयलाखननमन्त्री जी किशन रेड्डी एकस्मिन्नेव याने (कारयानमुन्नीय ) मन्त्रिमण्डलस्य सभां प्राप्तवन्तः।

केन्द्रीयमन्त्री शिवराजसिंह चौहान एतस्मिन् अवसरे पत्रकारैः सह संवादे उक्तवान् यत् सीआर पाटिल, जी किशन रेड्डी तथा सः कार पूलिङ्ग् कृत्वा यात्रां कृतवन्तः। प्रधानमन्त्री नरेन्द्र मोदी महोदयेन सम्पूर्णदेशस्य जनान् अनावश्यकपेट्रोलडीजलव्ययस्य न्यूनतां कर्तुं आह्वानं कृतम् अस्ति तथा च अस्य देशव्यापी पालनं क्रियते। मन्त्रिमण्डलस्य सहयोगिनः रूपेण तैः अपि कारयानमुन्नयनीकरणस्य निर्णयः कृतः।

चौहानेन उक्तं यत् वर्तमानपरिस्थितिषु पेट्रोलडीजलयोः अनावश्यकव्ययस्य न्यूनता अत्यावश्यकी अस्ति। यथासम्भवं सार्वजनिकपरिवहनस्य उपयोगः करणीयः तथा च ऊर्जारक्षणोपायाः स्वीकर्तव्याः।

---------------

Hindusthan Samachar / Dheeraj Maithani