Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 जूनमासः (हि.स.)।केन्द्रसर्वकारेण मार्गसंपर्कस्य तटीयसंपर्कस्य क्षेत्रीयआर्थिकविकासस्य च संवर्धनार्थं मध्यप्रदेशे ओडिशाराज्ये तेलंगानाराज्ये बिहारराज्ये च महत्त्वपूर्णाः राष्ट्रियराजमार्गपरियोजनाः अनुमोदिताः। प्रायः चतुर्विंशतिसहस्रकोटिरूप्यकपरिमितव्यययुक्ताभिः एताभिः परियोजनाभिः यातायातव्यवस्था सुलभा भविष्यति। औद्योगिकपर्यटनगतिविधीनां च विस्तारः भविष्यति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां सम्पन्नया आर्थिकविषयकमन्त्रिमण्डलीयसमित्या बुधवासरे विभिन्नाः राष्ट्रियराजमार्गपरियोजनाः स्वीकृताः। केन्द्रीयमन्त्री अश्विनीवैष्णवः राष्ट्रीयमाध्यमकेन्द्रे एतेषां निर्णयानां विषये जानकारीम् अदात्।
तेन उक्तं यत् मध्यप्रदेशे एनएच त्रिशतसप्तचत्वारिंशदधिकद्विबी इत्यस्य हिवारखेड़ी रोशनी आशापुर रुधी खण्डे वर्तमानमध्यवर्तीमार्गः दृढपार्श्वयुक्तद्विमार्गमानके उन्नीयते। एतदतिरिक्तं देशगांव जुलवानिया खण्डे वर्तमानद्विमार्गः चतुर्मार्गपर्यन्तं विस्तारितः भविष्यति। द्विशतत्रयस्त्रिंशदधिकषट्पञ्चाशत्किलोमीटरपरिमितायाः अस्याः परियोजनायाः व्ययः चतुर्सहस्रचतुःशतपञ्चदशकोटिरूप्यकाधिकः अनुमानितः अस्ति। परियोजनायाः अन्तर्गतं खरगोननगरपर्यन्तं षोडशदशमलवद्विकिलोमीटरपरिमितः हरितपरिहारमार्गः अपि निर्मास्यते।
मन्त्रिमण्डलेन ओडिशाराज्ये रामेश्वरात् पारादीपपर्यन्तं त्रिषष्ट्यधिकशतषट्त्रिंशत्किलोमीटरपरिमितस्य नवीनतटीयराजमार्गपरियोजनायाः अनुमोदनम् अपि प्रदत्तम्। अस्याः परियोजनायाः कुलव्ययः अष्टसहस्रत्रिशतकोटिरूप्यकाधिकः निर्धारितः अस्ति। अस्य निर्माणेन तटीयक्षेत्रेषु संपर्कव्यवस्था सुदृढा भविष्यति। बन्दरगाहाधारितआर्थिकगतिविधीनां च प्रोत्साहनं भविष्यति। एषा योजना नव आर्थिककेन्द्राणि पञ्च रसदकेन्द्राणि च संयोजयिष्यति। अस्य परिणामस्वरूपं रामेश्वरात् पारादीपपर्यन्तं यात्राकाले प्रायः द्विघण्टार्धस्य न्यूनता भविष्यति।
तेलंगानाराज्ये एनएच त्रिषष्टिः इत्यस्य आर्मूर जगतियाल मंचरियाल खण्डः तथा एनएच पञ्चशतत्रिषष्टिः इत्यस्य जगतियाल करीमनगर खण्डः चतुर्मार्गमानके विकसितः भविष्यति। एकोनद्विशत्किलोमीटराधिकपरिमितायाः अस्याः परियोजनायाः निवेशराशिः सप्तसहस्रपञ्चशतसप्तनवत्कोटिरूप्यकाधिकः भविष्यति। अस्याः योजनायाः फलस्वरूपं राज्यस्य उत्तरमध्यभागेषु यातायातक्षमता वर्धिष्यते। मालपरिवहनव्यवस्था च अधिकसुलभा भविष्यति। आर्मूरात् मंचरियालपर्यन्तं यात्राकाले प्रायः अर्धद्विघण्टायाः न्यूनता भविष्यति। जगतियालात् करीमनगरपर्यन्तं यात्रासमये प्रायः पञ्चचत्वारिंशन्मिनटन्यूनता भविष्यति।
एतदतिरिक्तं बिहारराज्ये एनएच एकत्रिंशत् तथा एनएच द्विशतैकत्रिंशत् इत्येतयोः खगड़िया पूर्णिया खण्डस्य शुल्काधारितबीओटी प्रारूपेण चतुर्मार्गमानके उन्नयनार्थं अनुमोदनं प्रदत्तम्। अस्याः परियोजनायाः अनुमानितव्ययः त्रिसहस्रनवशतषट्त्रिंशत्कोटिरूप्यकाधिकः अस्ति। अस्य फलस्वरूपं उत्तरपूर्वबिहारप्रदेशे मार्गसंपर्कव्यवस्था सुदृढा भविष्यति। क्षेत्रीयविकासाय नूतना गतिः अपि प्राप्ता भविष्यति। परियोजनायाः अन्तर्गतं पूर्णियानगरपर्यन्तं हरितपरिहारमार्गः निर्मास्यते। एतेन पञ्च आर्थिककेन्द्राणि एकादश खाद्यान्नकेन्द्राणि च परस्परं संयोजितानि भविष्यन्ति।
----------
Hindusthan Samachar / Dheeraj Maithani