Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 जूनमासः (हि.स.)।
भारतस्य स्वच्छऊर्जाक्षेत्रात् वर्षे २०३० पर्यन्तं ४४ लक्षाधिकाः जीविकाःउत्पद्यन्ते इति अपेक्षा वर्तते। एतेषु रूफटॉप सौर योजना सर्वाधिकां जीविकां दास्यति। काउंसिल ऑन एनर्जी एनवायरनमेंट एंड वॉटर तथा नेचुरल रिसोर्सेज डिफेंस काउंसिल इंडिया इत्येतयोः संस्थयोः संयुक्त अध्ययनॆ एतत् प्रकाशितम्।
ड्राइविंग एनर्जी ट्रांजिशन वर्कफोर्स स्किल्स एंड जेंडर इन इंडियाज रिन्यूएबल एनर्जी सेक्टर इति नाम्ना एषा रिपोर्ट नवीन नवीकरणीय ऊर्जा मन्त्रालयस्य तकनीकी मार्गदर्शनेन सिद्धा। एषा २०२४–२५ वर्षयोः सौर ऊर्जा पवन ऊर्जा जैव ऊर्जा तथा जलविद्युत् क्षेत्रेषु कार्यरत कम्पनीनां प्राथमिक सर्वेक्षणे आधारितास्ति।
अध्ययनेन विभिन्न स्वच्छऊर्जा प्रौद्योगिकीषु तथा व्यवसायीकरणस्य विविध चरणेषु कर्मचारिणां आवश्यकता निर्धारणार्थं नवीनः एफटीई गुणाङ्कः निर्मितः। अस्य साहाय्येन उपकरण निर्माणे परियोजना स्थापने तथा संचालन कार्येषु प्रत्यक्ष रोजगारस्य आकलनं कृतम्।
भारतम् अधुना कुल स्थापित अक्षय ऊर्जा क्षमतायाः दृष्ट्या विश्वे तृतीय स्थानं धारयति। अपि च कुल विद्युत् उत्पादन क्षमतायाः ५० प्रतिशतं भागं गैर जीवाश्म स्रोतसः प्राप्तुं निर्धारितं लक्ष्यं भारतेन निर्धारित समयात् पञ्चवर्षपूर्वमेव २०२५ वर्षे सम्पन्नम्।
नवीन नवीकरणीय ऊर्जा मन्त्रालयस्य सचिवः संतोष कुमार सारंगी उक्तवान् “सफल हरित परिवर्तनार्थं जनसहभागिता अत्यन्तं आवश्यकः आधारः अस्ति। जनान् अस्य परिवर्तनस्य केन्द्रे स्थापयित्वा अनेकाः प्रत्यक्ष अप्रत्यक्ष लाभाः साध्यन्ते। भारतेन प्रदर्शितं यत् आर्थिक विकासः तथा सतत विकास लक्ष्याणि सम्यक् सह गन्तुं शक्नुवन्ति। गतवर्षे वयं प्रायः ५१ गीगावाट् सौर पवन ऊर्जा क्षमतां प्राप्तवन्तः तथा एषा गतिः आगामिषु वर्षेष्वपि वर्धिष्यते इति अपेक्षा अस्ति।”
अरुणाभ घोषः उक्तवान् यत् भारतस्य ऊर्जा परिवर्तनं कार्यबल परिवर्तनमपि भवितुमर्हति। एषः अवसरः जीविकासृजनाय कौशल विकासाय घरेलु आपूर्ति शृङ्खलानां सुदृढीकरणाय तथा स्वच्छऊर्जा विस्तारस्य लाभान् परिवाराणां कृषकाणां श्रमिकाणां उद्यमिनां च समीपं नेतुं महत्त्वपूर्णः अस्ति।
दीपा सिंह बगई अपि उक्तवती “भारतस्य आर्थिक वृद्धये ऊर्जा सुरक्षायै तथा जलवायु लक्ष्याणां पूर्तये स्वच्छऊर्जा सम्बद्ध रोजगाराः अत्यावश्यकाः सन्ति। एतदध्ययनं दर्शयति यत् विकेन्द्रीकृत अक्षय ऊर्जा विशेषतः रूफटॉप सौर योजना नगरेषु लघु नगरिषु तथा ग्राम्य प्रदेशेषु अपि विशालजीविकासृजनं कर्तुं समर्था अस्ति। किन्तु तदर्थं सुविचारित योजना विश्वसनीय कर्मचारी आँकडा प्रणाली तथा सुदृढ औद्योगिक प्रशिक्षण साझेदारी आवश्यकाः।”
अध्ययनानुसारं सौर पवन ऊर्जा स्थापन क्षेत्रेषु तथा उपकरण निर्माण कार्येषु महिलानां भागः केवलं ११ प्रतिशतं वर्तते। रूफटॉप सौर क्षेत्रे महिलानां सर्वाधिकः १५ प्रतिशत भागः दृश्यते। तदनन्तरं सौर मॉड्यूल निर्माणे १३ प्रतिशतं फ्लोटिंग सोलर क्षेत्रे १२ प्रतिशतं भूमिस्थ सौर परियोजनासु ११ प्रतिशतं च अस्ति।
अध्ययनं दर्शयति यत् स्वच्छऊर्जा कार्यबलस्य ६१ प्रतिशत स्त्रियः गैर तकनीकी भूमिकासु यथा मानव संसाधन विभागे लेखा विभागे तथा प्रशासन क्षेत्रे कार्यं कुर्वन्ति।
अध्ययने एतदपि प्रकाशितं यत् संचालन रक्षण कार्येषु तथा उपकरण निर्माण क्षेत्रेषु प्रायः १३ लक्ष एफटीईजीविकाः सृज्येरन् ये परियोजनानां तथा निर्माण केन्द्राणां सम्पूर्ण जीवनकालपर्यन्तं स्थायिनः भविष्यन्ति।स्वच्छऊर्जा सम्बद्धजीविकानां कृते उच्च कौशलस्य आवश्यकता भविष्यति।
--------------
Hindusthan Samachar / Dheeraj Maithani