Enter your Email Address to subscribe to our newsletters

लखनऊ, 03 जूनमासः (हि.स.)।उत्तरप्रदेशे मन्त्रिमण्डलविस्तारानन्तरं मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रभारिमन्त्रिणां पूर्वं आवर्तितेषु जनपदेषु परिवर्तनं कृतम्। तथा च अधुना एव मन्त्रिपदं प्राप्तवन्तः नेतारः अपि प्रभारिमन्त्रिणः नियुक्ताः। सहयोगिदलानां मन्त्रिभ्यः अपि एकैकं जनपदं प्रदत्तम्। एतदतिरिक्तं शासनस्य वरिष्ठाः ११ मन्त्रिणः द्वयोः द्वयोः जनपदयोः प्रभारे नियुक्ताः।
शासनस्य पक्षतः प्रकाशितसूच्यानुसारं वित्तसंसदीयकार्यमन्त्रिणे सुरेश खन्ना इत्यस्मै लखनऊ तथा वाराणसी, कृषिमन्त्रिणे सूर्यप्रताप शाहये अयोध्या तथा बस्ती, जलशक्तिमन्त्रिणे स्वतन्त्रदेव सिंहाय प्रयागराजः गोरखपुरं, अथ च बेबीरानी मौर्य इत्यस्यै इटावा तथा हाथरस जनपदयोः प्रभारः नियोजितः। एवं गन्नामन्त्रिणे लक्ष्मीनारायण चौधरिणे अलीगढ़ तथा फिरोजाबाद, पर्यटनमन्त्रिणे जयवीर सिंहाय झांसी तथा फर्रूखाबाद, पशुधनमन्त्रिणे धर्मपाल सिंहाय गाजियाबाद तथा रामपुर, औद्योगिकमन्त्रिणे नन्दगोपाल नन्दिने मिर्जापुर तथा चित्रकूट, श्रममन्त्रिणे अनिल राजभराय आजमगढ़ तथा सिद्धार्थनगर, मन्त्रिणे राकेश सचानाय रायबरेली तथा कन्नौज, तथा ऊर्जामन्त्रिणे ए. के. शर्मणे जौनपुर तथा भदोही जनपदयोः प्रभारः प्रदत्तः।
तथैव उच्चशिक्षामन्त्री योगेन्द्र उपाध्याय महोदयाय कानपुरनगर, प्राविधिकशिक्षामन्त्री आशीष पटेल महोदयाय गोण्डा, मत्स्यमन्त्री डॉ. संजय निषाद महोदयाय कानपुरदेहात, पञ्चायतीराजमन्त्री ओमप्रकाश राजभर महोदयाय अम्बेडकरनगर, कारागारमन्त्री दारा सिंह चौहान महोदयाय कुशीनगर तथा श्रावस्ती, तथा मन्त्री सुनील शर्मा महोदयाय सहारनपुरस्य प्रभारः प्रदत्तः। एवं पूर्वप्रदेशभाजपाध्यक्षः तथा मन्त्री भूपेन्द्र चौधरी महोदयाय आगरा तथा कासगंज, विज्ञानप्रौद्योगिकीमन्त्री अनिल कुमार महोदयाय मुरादाबाद, तथा खाद्यरशनमन्त्री मनोज पाण्डेय महोदयाय सीतापुरस्य प्रभारः प्रदत्तः।
एतदतिरिक्तं राज्य मन्त्री (स्वतन्त्रप्रभार) वर्गे आबकारीमन्त्री नितिन अग्रवाल महोदयाय लखीमपुरखीरी, व्यावसायिकशिक्षाकौशलविकासराज्यमन्त्री (स्वतन्त्रप्रभार) कपिलदेव अग्रवालाय बिजनौर, स्टाम्पपञ्जीयनराज्यमन्त्रिणे (स्वतन्त्रप्रभार) रवीन्द्र जायसवालाय गाजीपुर, मूलशिक्षाराज्यमन्त्रिणे (स्वतन्त्रप्रभारः) संदीप सिंहाय महोदयाय मथुरा, माध्यमिकशिक्षाराज्यमन्त्रिणे (स्वतन्त्रप्रभार) गुलाब देव्यै अमरोहा, क्रीडाराज्यमन्त्रिणे (स्वतन्त्रप्रभार) गिरीश यादवाय सुलतानपुर तथा होमगार्डमन्त्री धर्मवीर प्रजापतये मैनपुरी जनपदस्य प्रभारिमन्त्रिपदं प्रदत्तम्।
Hindusthan Samachar / Dheeraj Maithani