डॉ. लक्ष्मीनंदन बोरा इत्यस्य पुण्यतिथौ मुख्यमंत्र्यददाच्छ्रद्धांजलि
गुवाहाटी, 03 जूनमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बुधवासरे प्रख्यातसाहित्यकारस्य डॉ. लक्ष्मीनन्दन बोरा महोदयस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सः डॉ. बोरा महोदयम् असमियासाहित्याकाशस्य उज्ज्वलनक्षत्रम्
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 03 जूनमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बुधवासरे प्रख्यातसाहित्यकारस्य डॉ. लक्ष्मीनन्दन बोरा महोदयस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सः डॉ. बोरा महोदयम् असमियासाहित्याकाशस्य उज्ज्वलनक्षत्रम् इति वर्णयन् तस्य साहित्यिकयोगदानं स्मृतवान्।

मुख्यमन्त्री स्वस्य सामाजिकमाध्यमसन्देशे उक्तवान् यत् डॉ. बोरा महोदयेन स्वस्य शोधपरकसृजनात्मकप्रतिभया असमियासाहित्यं नूतनशिखराणि प्रति नीतम्। ‘भाओना’ इति कथया आरब्धा तस्य साहित्यिकयात्रा अनेकाभिः अमूल्यकृतिभिः साहित्यजगत् समृद्धवती तथा पाठकानां मनसि गभीरां छापाम् स्थापितवती।

तेन उक्तं यत् डॉ. बोरा महोदयेन स्वलेखनस्य माध्यमेन समाजः, मानवजीवनस्य संघर्षः, मूल्यानि तथा कालस्य परिवर्तमानस्पन्दनानि अत्यन्तप्रभावशालिरूपेण अभिव्यक्तानि। तस्य साहित्यिककृतयः, विचाराः तथा आदर्शाः नूतनपीढ्यै सदा प्रेरणास्रोतः भविष्यन्ति।

मुख्यमन्त्री उक्तवान् यत् सरस्वतीसम्मानेन सम्मानितस्य डॉ. लक्ष्मीनन्दन बोरा महोदयस्य समृद्धा साहित्यिकविरासत् आगामिपीढीः निरन्तरं मार्गदर्शनं करिष्यति। तेन महान् साहित्यकारः पुण्यतिथौ विनम्रश्रद्धाञ्जलिः अर्पितः।

----------

Hindusthan Samachar / Dheeraj Maithani