इतिहासस्य पृष्ठेषु ०४ जूनमासः - यदा तियानआनमेन-चतुष्कोणः लोकतन्त्रस्य मागस्य दमनस्य च प्रतीकः अभवत्
देशस्य विश्वस्य च इतिहासे ०४ जूनमासस्य दिनाङ्कः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः स्मरणीयः अस्ति, किन्तु १९८९ तमे वर्षे चीनदेशस्य राजधानी बीजिङ्ग-नगरे स्थिते तियानआनमेन-चतुष्कोणे घटिता घटना एनं विश्व-इतिहासस्य अत्यन्तं चर्चितेषु विवादास्पदेषु च दिन
1292addd6ec8af43b9d2535dbcf3c334_254483516.jpg


देशस्य विश्वस्य च इतिहासे ०४ जूनमासस्य दिनाङ्कः अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः स्मरणीयः अस्ति, किन्तु १९८९ तमे वर्षे चीनदेशस्य राजधानी बीजिङ्ग-नगरे स्थिते तियानआनमेन-चतुष्कोणे घटिता घटना एनं विश्व-इतिहासस्य अत्यन्तं चर्चितेषु विवादास्पदेषु च दिनाङ्केषु परिगणयति।

१९८९ तमे वर्षे अस्मिन्नेव दिने चीनीय-सैन्येन जनतान्त्रिक-सुधाराणां, अभिव्यक्ति-स्वातन्त्र्यस्य तथा भ्रष्टाचार-विरोधस्य समर्थनार्थं आन्दोलनं कुर्वत्सु सहस्रशः छात्रेषु नागरिकेषु च कार्यवाही कृता। अनेकसप्ताहपर्यन्तं प्रवर्तमानान् शान्तिपूर्ण-प्रदर्शनान् निरोद्धुं सैन्येन रणयानानि शस्त्राणि च उपयोजितानि। अस्यां कार्यवाह्यां बहुसंख्याकाः जनाः मृत्युम् उपगताः, यद्यपि मृतकानां यथार्था संख्या अद्यापि विवादस्य विषयः अस्ति। इतिहासे एषा घटना ‘तियानआनमेन-चतुष्कोण-नरसंहारः’ इति नाम्ना अभिलिखिता अस्ति।

एषा घटना चीनदेशस्य आधुनिक-इतिहासस्य संवेदनशीलतमेषु अध्यायेषु अन्यतमा मन्यते। चीनदेशे अद्यापि अस्य विषयस्य चर्चा, माध्यमेषु वार्ताप्रसारणम् तथा सार्वजनिक-स्मरणं प्रति कठोर-प्रतिबन्धाः सन्ति। अन्तर्जाल-माध्यमेषु सामाजिक-माध्यमेषु च अस्य सम्बन्धिनी सामग्री नियन्त्र्यते।

तियानआनमेन-चतुष्कोणः स्वयं चीनदेशस्य राजनैतिक-इतिहासे महत्त्वपूर्णं केन्द्रम् आसीत्। अधुना सः विश्वस्य विशालतमेषु सार्वजनिक-चतुष्कोणेषु अन्यतमः अस्ति, यत्र एकस्मिन् समये प्रायः षट्-लक्ष-जनाः समवेताः भवितुं शक्नुवन्ति। १९११ तमे वर्षे सम्पन्नायाः क्रान्तेः पूर्वं एषः प्रदेशः मुक्त-प्राङ्गणरूपेण प्रसिद्धः आसीत्। अनन्तरं राजनैतिक-क्रियाकलापानां केन्द्रत्वेन अस्य ऐतिहासिक: परिणाम: सुदृढ: अभवत्।

१९११ तमे वर्षे सम्पन्ना क्रान्तिः, या सुन्-यात्-सेन्-महाभागस्य विचारैः प्रेरितेन आन्दोलननेन सञ्चालिता आसीत्, चीनदेशस्य साम्राज्य-व्यवस्थायाः अन्तस्य मार्गं प्रशस्तवती। तदनन्तरं तियान-आनमेन-चतुष्कोणः राष्ट्रिय-राजनैतिक-कार्यक्रमाणां प्रमुख-स्थलम् अभवत्।

अस्य चतुष्कोणस्य महत्त्वं तदा अधिकं वर्धितम् यदा १९४९ तमस्य वर्षस्य अक्टोबर-मासस्य ०१ दिनाङ्के माओ-त्से-तुङ्ग-महाभागेन अत्र विशाल-जनसभां सम्बोध्य चीन-जनवादी-गणराज्यस्य स्थापनायाः घोषणा कृता। तदानीमारभ्य एतत् स्थानं चीनदेशस्य राजनैतिक-शक्तेः राष्ट्रिय-परिचयस्य च प्रमुखं प्रतीकं मन्यते।

महत्त्वपूर्णाः घटनाः

• १८९६ — हेनरी-फोर्ड-महाभागेन अमेरिकादेशस्य डेट्रॉइट-नगरे स्वस्य प्रथम-वाहन-प्रतिरूपस्य परीक्षणं कृतम्।• १९१९ — अमेरिकी-नौसेनया कोस्टारिका-देशे आक्रमणं कृतम्।• १९२८ — चीनदेशस्य राष्ट्रपतिः हाङ्ग्-जोलिन् जापानीय-गुप्तचरेण हतः।• १९२९ — जॉर्ज-ईस्टमेन-महाभागेन प्रथम-रङ्गीन-चलच्चित्रस्य नमूना प्रदर्शितः।• १९३६ — हिन्दी-चलच्चित्र-जगतः सुप्रसिद्धा अभिनेत्री नूतन-महाभागायाः जन्म अभवत्।• १९४० — द्वितीय-विश्वयुद्धकाले जर्मन-सैन्यं फ्रान्सदेशस्य राजधानीं पेरिस-नगरं प्रविष्टम्।• १९४४ — अमेरिकी-सैन्यं द्वितीय-विश्वयुद्धकाले रोम-नगरं प्रविष्टम्।• १९५९ — सी. राजगोपालाचारिणा स्वतन्त्र-पक्षस्य स्थापनायाः घोषणा कृता।• १९६४ — मालदीव-देशेन संविधानस्य निर्माणं कृतम्।• १९७० — ब्रिटेनदेशात् पृथक् भूत्वा टोङ्गा-देशः स्वतन्त्रः अभवत्।• १९८२ — इजरायल-देशेन दक्षिण-लेबनान-प्रदेशे आक्रमणं कृतम्।• १९८९ — बीजिङ्ग-नगरे तियानआनमेन-चतुष्कोणे शान्तिपूर्ण-प्रदर्शनकर्तृषु सैन्य-कार्यवाही कृता।• १९९१ — द्वितीय-विश्वयुद्धानन्तरं अल्बानिया-देशे प्रथमः असाम्यवादी-शासन-समूहः स्थापितः।• १९९७ — दूरसञ्चार-उपग्रहः 2D कक्षायां स्थापितः।• २००१ — नेपालदेशस्य नवनियुक्तस्य नरेशस्य दीपेन्द्रस्य चिकित्सालये निधनम् अभवत्; ज्ञानेन्द्रस्य राज्याभिषेक-विरोधे हिंसक-घटनाः अभवन्।• २००३ — डोमिनिक-गणराज्यस्य अष्टादशवर्षीया सुन्दरी एमीलिया-वेगा ‘मिस् यूनिवर्स-२००३’ इति उपाधिं प्राप्तवती।• २००५ — लालकृष्ण-आडवाणी-महाभागेन कराची-नगरे मोहम्मद-अली-जिन्ना धर्मनिरपेक्षः व्यक्तिः आसीत् इति उक्तम्।• २००६ — मोंटेनेग्रो-देशेन स्वतन्त्रतायाः घोषणा कृता।• २००७ — चीनदेशस्य उपप्रधानमन्त्री हाङ्ग्-चू-महाभागस्य निधनम् अभवत्।• २००८ — हरियाणा-राज्यसर्वकारेण पारिवारिक-पेन्शन-योजनायाः लाभः २५ वर्षेभ्यः न्यूनवयस्काभ्यः कन्याभ्यः अपि प्रदेयः इति घोषितम्।• २००८ — बराक्-ओबामा-महाभागेन अमेरिकी-राष्ट्रपतिपदस्य निर्वाचनार्थं डेमोक्रेटिक-पक्षस्य अभ्यर्थित्वं प्राप्तम्।• २०११ — गैलप्-सर्वेक्षणेन प्रकाशितं यत् भारतीयाः आर्थिक-वृद्धेः अपेक्षया पर्यावरण-संरक्षणाय किंचित् अधिकं महत्त्वं ददति।• २०११ — अर्थशास्त्रस्य नोबेल-पुरस्कार-विजेता डॉ.अमर्त्य-सेन-महाभागेन पाश्चात्य-देशान् भारत-चीनदेशाभ्यां शिक्षां ग्रहीतुं परामर्शः दत्तः।• २०१५ — घाना-देशे पेट्रोल-पम्प-इत्यत्र जातायाम् अग्निदुर्घटनायां २०० अधिकाः जनाः मृत्युम् उपगताः।

जन्म

• १९३६ — नूतनम्, हिन्दी-चलच्चित्र-जगतः प्रसिद्धा अभिनेत्री।• १९४६ — एस.पी.बालासुब्रह्मण्यम्, भारतीय-चलच्चित्र-जगतः विख्यातः पार्श्वगायकः।• १९४८ — अनिल-शास्त्री, भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षस्य वरिष्ठ-नेता।• १९७५ — एञ्जेलिना-जोली, अमेरिकी-अभिनेत्री।• १९८८ — प्रवीण-भगत, भारतस्य पैरा-बैडमिण्टन्-क्रीडकः।

निधनम्

• १९६२ — अचन्त-लक्ष्मीपतिः, आयुर्वेद-औषधानां प्रचार-प्रसाराय प्रसिद्धः।• २०१६ — सुलभा-देशपाण्डे, हिन्दी-मराठी-चलच्चित्रयोः भारतीय-अभिनेत्री।• २०१८ — अभिमन्यु-अनतः, मॉरीशस-देशे हिन्दी-कथा-साहित्यस्य सम्राट् इति ख्यातः साहित्यकारः।

महत्त्वपूर्णाः अवसराः

• तियान-आनमेन-दिवसः।• निर्दोष-बालकानां प्रति दुर्व्यवहार-विरोधी-दिवसः

Hindusthan Samachar / Divya Ranjan