Enter your Email Address to subscribe to our newsletters

रायपुरम् 03 जूनमासः (हि.स.)।
द्विदिवसीयात् बस्तरप्रवासात् प्रत्यागत्य मुख्यमन्त्री विष्णुदेव सायः अद्य बुधवासरे राजधानी रायपुरे विभिन्नेषु महत्त्वपूर्णकार्यक्रमेषु सहभागी भविष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:३० वादनात् मध्याह्न १२:३० वादनपर्यन्तं दूरदर्शनकेन्द्रे आयोजिते विशेषकार्यक्रमे सहभागितां करिष्यति। अस्मिन् अवसरे सः प्रदेशस्य विकासः, जनकल्याणकारीयोजनाः तथा शासनस्य प्राथमिकताः इत्येषु विषयेषु स्वविचारान् प्रस्तोष्यति।
कार्यक्रमानन्तरं मुख्यमन्त्री मध्याह्ने १२:४० वादनपर्यन्तं मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति। राजधानीनगरे मुख्यमन्त्रिणः उपस्थितिं प्रति प्रशासनिकराजनीतिकवृत्तेषु विशेषसक्रियता दृश्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani