भारतीय जनसंचार संस्थाने स्नातकस्नाकतोत्तरपाठ्यक्रमाय प्रवेश प्रक्रिया शुभारब्धा
नव दिल्ली, 03 जूनमासः (हि.स.)।भारतीय जनसंचार संस्थाने २०२६–२७ शैक्षणिकसत्रार्थं स्नातकस्नाकोत्तरपाठ्यक्रमकार्यक्रमेषु प्रवेशार्थं ईपरामर्शन प्रक्रिया आरब्धा अस्ति। इच्छुकाः अभ्यर्थिनः ७ जूनपर्यन्तं ऑनलाइन पञ्जीकरणं कर्तुं शक्नुवन्ति, यदा प्रथमं सीट
आईआईएमसी की फोटो


नव दिल्ली, 03 जूनमासः (हि.स.)।भारतीय जनसंचार संस्थाने २०२६–२७ शैक्षणिकसत्रार्थं स्नातकस्नाकोत्तरपाठ्यक्रमकार्यक्रमेषु प्रवेशार्थं ईपरामर्शन प्रक्रिया आरब्धा अस्ति। इच्छुकाः अभ्यर्थिनः ७ जूनपर्यन्तं ऑनलाइन पञ्जीकरणं कर्तुं शक्नुवन्ति, यदा प्रथमं सीट आवंटनं ९ जूनदिने प्रकाशितं भविष्यति।

संस्थानेन अस्मिन् वर्षे त्रीणि नवीनानि स्नातकोत्तरपाठ्यक्रमाः आरब्धाः, येषु ब्रांडप्रबन्धनं स्वास्थ्य संचारः, माध्यमः, संचारशासनकॉर्पोरेट संचारः ब्रांडप्रबंधन इत्येतानि समाविष्टानि सन्ति। एतेन सह संस्थानं अधुना स्वेषु षट्सु परिसरेषु आहत्य षट् स्नातकोत्तरकार्यक्रमान् संचालयिष्यति।

बुधवासरे संस्थानस्य प्रवेश प्रभारी तथा परीक्षा नियंत्रकः प्रो राकेश कुमार गोस्वामी उक्तवान् यत् सर्वेषु स्नातकस्नातकोत्तरकार्यक्रमेषु प्रवेशः केवलं ई काउंसलिंग माध्यमेन एव भविष्यति। संस्थानस्य चत्वारः पारम्परिकाः पीजी डिप्लोमा कार्यक्रमाः अपि अस्मिन् वर्षे उपलब्धाः भविष्यन्ति। एतेषु अंग्रेजी पत्रकारिता, हिन्दी पत्रकारिता, रेडियो एवं टेलीविजन पत्रकारिता तथा विज्ञापन एवं जनसंपर्क इत्येतानि प्रमुखानि सन्ति।

एमए कार्यक्रमेषु प्रवेशार्थं अभ्यर्थिनां समीपे न्यूनातिन्यूनं ५५ प्रतिशताङ्कैः सह स्नातक उपाधिः तथा सीयूईटी पीजी सीओक्यूपी १७ इत्यस्मिन् वैधः स्कोरः आवश्यकः अस्ति। पीजी डिप्लोमा पाठ्यक्रमेषु तु स्नातक उपाधेः सह सीयूईटीस्नातकोत्तरस्य अंकपत्रम् अनिवार्यः अस्ति।

चयनिताः अभ्यर्थिनः प्रवेशार्थं २० सहस्र रूप्यकाणां आसनस्वीकृति शुल्कं दास्यन्ति। संस्थानेन अभ्यर्थिभ्यः आवेदनात् पूर्वं प्रवेश सूचना तथा प्रॉस्पेक्टस सावधानीपूर्वकं पठितुं तथा स्वप्राथमिकताः सम्यक् विचार्य एव पूरयितुं परामर्शः दत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani