केन्द्रीय-विश्वविद्यालये जम्मूनगरे महर्षि-अरविन्द-पुस्तकालयस्य नूतन-भवनस्य उद्घाटनम्
जम्मूनगरम्, ०३ जूनमासः (हि.स.)। केन्द्रीय-विश्वविद्यालये जम्मूनगरे अद्य चाणक्य-भवने स्थितस्य महर्षि-अरविन्द-पुस्तकालयस्य नूतन-भवनस्य उद्घाटनं कुलपतिना प्रो.संजीव-जैनेन कृतम्। अस्मिन् अवसरे विश्वविद्यालयस्य अधिष्ठातारः, निदेशकाः, विभागाध्यक्षाः, संक
केंद्रीय विश्वविद्यालय जम्मू में महार्षि अरविंद लाइब्रेरी के नए भवन का उद्घाटन


जम्मूनगरम्, ०३ जूनमासः (हि.स.)। केन्द्रीय-विश्वविद्यालये जम्मूनगरे अद्य चाणक्य-भवने स्थितस्य महर्षि-अरविन्द-पुस्तकालयस्य नूतन-भवनस्य उद्घाटनं कुलपतिना प्रो.संजीव-जैनेन कृतम्। अस्मिन् अवसरे विश्वविद्यालयस्य अधिष्ठातारः, निदेशकाः, विभागाध्यक्षाः, संकाय-सदस्याः, विश्वविद्यालय-अधिकारिणः तथा पुस्तकालय-कर्मचारिणः उपस्थिताः आसन्।

उद्घाटन-समारोहं सम्बोधयन् प्रो.संजीव-जैनः अवदत् यत् विश्वविद्यालये अध्यापन-अधिगम-अनुसन्धान-गतिविधीनां सुदृढीकरणे पुस्तकालयस्य महत्त्वपूर्णा भूमिका वर्तते। तेन उक्तं यत् महर्षि-अरविन्द-पुस्तकालयः स्वस्य डिजिटल-संसाधनानां कृते चतुर्विंशति-घण्टा-सप्त-दिनात्मकां दूरस्थ-अभिगमन-सुविधां प्रददाति, येन शोधार्थिनः, विद्यार्थिनः, शिक्षकाः च कुत्रापि स्थित्वा शैक्षणिक-सामग्रीं प्राप्तुं शक्नुवन्ति।

कुलपतिना सूचितं यत् शीघ्रमेव पुस्तकालये ई-पुस्तकालय-सुविधा अपि प्रारभ्यते, येन डिजिटल-शिक्षायाः अधिकः संवर्धनः भविष्यति। तेन उक्तं यत् विश्वविद्यालयेन प्रदत्ताः सर्वे पीएचडी-शोध-प्रबन्धाः शोधगङ्गा-सङ्ग्रह: उपारोपिताः सन्ति, येन गुणात्मक-अनुसन्धानस्य व्यापक-प्रसारः सुनिश्चितः जातः।

प्रो. जैनः अवदत् यत् नूतनः पुस्तकालयः आधुनिक-सुविधाभिः समृद्धैः शैक्षणिक-संसाधनैः च सुसज्जितः अस्ति। अत्र पुस्तक-भण्डार-योजनायाः अन्तर्गतं १८,००० अधिकानि पुस्तकानि, भारतीय-ज्ञान-प्रणाली (आईकेएस) सम्बन्धिन्यः २,००० अधिकानि पुस्तकानि, प्रायः १,५०० ई-पुस्तकाः तथा ‘एक-राष्ट्रम् एक-सदस्यता’ उपक्रमस्य माध्यमेन प्रायः ३० प्रकाशकानां १,००,००० अधिकानि ई-पत्रिकाणि उपलब्धानि सन्ति।

पुस्तकालये एककाले १५० अधिकानां पाठकानां उपवेशन-व्यवस्था विद्यते तथा एतत् पूर्णतया वातानुकूलितं आधुनिक-उपस्करैः च सुसज्जितम् अस्ति।

तेन एतदपि सूचितं यत् अनुसन्धानस्य गुणवत्तां रक्षितुं पुस्तकालये आईथेन्टिकेट् नामकस्य साहित्य-चौर्य-निरोधक-सॉफ्टवेयर-इत्यस्य सुविधा अपि उपलब्धा अस्ति।

समारोहस्य अन्ते कुलपतिः अन्ये च गणमान्य-जनाः नवस्थापितस्य पुस्तकालयस्य परिभ्रमणं कृत्वा तत्र उपलब्धानां सुविधानां अवलोकनं कृतवन्तः।

हिन्दुस्थान समाचार / Divya Ranjan