मासिक धर्मो मातृत्वं जीवनस्य आधारश्च : उपायुक्तः
रामगढ़म्, 03 जूनमासः (हि.स.)। रामगढसमाहरणालयस्य सभागारे बुधवासरे उपायुक्तस्य ऋतुराज इत्यस्य अध्यक्षतायां चुप्पी तोड़ो अभियानस्य अन्तर्गतं विशेषकार्यशालासह शपथग्रहणकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यं मासिकधर्मसम्बद्धसामाजिकसंकोचस्य भ्र
कार्यक्रम में शामिल लोग


कार्यक्रम में शामिल लोग


रामगढ़म्, 03 जूनमासः (हि.स.)। रामगढसमाहरणालयस्य सभागारे बुधवासरे उपायुक्तस्य ऋतुराज इत्यस्य अध्यक्षतायां चुप्पी तोड़ो अभियानस्य अन्तर्गतं विशेषकार्यशालासह शपथग्रहणकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यं मासिकधर्मसम्बद्धसामाजिकसंकोचस्य भ्रान्तीनां च निवारणं कृत्वा महिलासु किशोरीषु च स्वास्थ्यस्वच्छतयोः प्रति जागरूकतावर्धनम् आसीत्।

कार्यशालां सम्बोधयन् उपायुक्तः उक्तवान् यत् मासिकधर्मः न काचित् व्याधिः न वा लज्जायाः विषयः अस्ति। अपितु सः मातृत्वस्य जीवनस्य च आधारः अस्ति। तेन उक्तं यत् चुप्पी तोड़ो अभियानस्य मूलोद्देश्यं तस्याः सामाजिकमौनस्थितेः अन्तःकरणं कर्तुम् अस्ति या महिलानां स्वास्थ्ये प्रतिकूलप्रभावं जनयति। सहिया सेविका स्वास्थ्यकर्मिण्यः च यदा गृहे गृहे गत्वा अस्मिन् विषये स्पष्टतया संवादं करिष्यन्ति तदैव समाजे सकारात्मकपरिवर्तनं भविष्यति। परिवाराः अपि स्वास्थ्यस्य प्रति अधिकजागरूकाः भविष्यन्ति।

उपविकासायुक्तः आशीषअग्रवालो ग्रामीणक्षेत्रेषु मासिकधर्मस्वच्छताप्रबन्धस्य सुदृढीकरणस्य आवश्यकतां प्रतिपादितवान्। तेन उक्तं यत् स्वच्छता स्वास्थ्यं च परस्परपूरकौ स्तः। ग्रामीणस्तरे स्वच्छतापट्टिकानां उपलब्धता सुनिश्चितकर्तुं प्रशासनस्य प्राथमिकतासु अन्तर्भवति। आङ्गनबाडीसेविकाः सहियाः अन्ये क्षेत्रकार्यकर्तारः च समाजे जागरूकताप्रसारस्य अत्यन्तमहत्त्वपूर्णा शृंखला सन्ति।

जिलासमाजकल्याणपदाधिकारिणी इन्दुप्रभाखलखो अस्मिन् अवसरे उक्तवती यत् महिलायाः स्वास्थ्यं सम्पूर्णपरिवारस्य सुदृढतायाः आधारः भवति। किन्तु संकोचस्य जागरूकतायाः अभावस्य च कारणात् महिलाः स्वस्वास्थ्यसमस्याः प्रायेण उपेक्षन्ते। एतादृशैः अभियानेभ्यः महिलाभ्यः किशोरीभ्यः च सुरक्षितस्वस्थगरिमामयजीवनाय प्रेरणा भविष्यति।

कार्यक्रमस्य समये उपायुक्तेन अन्यैः वरिष्ठाधिकारिभिः च उपस्थितासु सहियासु आङ्गनबाडीसेविकासु किशोरीषु च सांकेतिकरूपेण स्वच्छतापट्टिकानां वितरणं कृतम्। सर्वैः सहभागिभिः मासिकधर्मसम्बद्धभ्रान्तीनां निवारणार्थं समाजे जागरूकताप्रसारणार्थं च सामूहिकशपथः अपि गृहीतः।

उपायुक्तेन एएनएम कर्मिभ्यः जलमित्रेभ्यः च निर्देशः प्रदत्तः यत् ते ग्रामेषु गत्वा महिलाभ्यः किशोरीभ्यः च स्वच्छतापट्टिकानां समुचितप्रयोगस्य व्यक्तिगतस्वच्छतायाः उपयोगानन्तरं तासां सुरक्षितनिष्कासनस्य च विषये जानकारीं ददतु। तेन उक्तं यत् स्वास्थ्यस्वच्छतासम्बद्धजानकारीं जनजनपर्यन्तं प्रापयितुं प्रशासनस्य प्राथमिकता अस्ति।

कार्यक्रमे उपविकासायुक्तः आशीषअग्रवाल जिलासमाजकल्याणपदाधिकारिणी इन्दुप्रभाखलखो पेयजलस्वच्छताप्रमण्डलस्य कार्यपालकअभियन्ता सुरेन्द्रकुमारदिनकर सहिताः जिल्लायाः विविधप्रखण्डेभ्यः आगताः जलसहियाः आङ्गनबाडीसेविकाः सहायिकाः एएनएम कर्मिण्यः स्थानीयजनप्रतिनिधयः बहुसंख्यकाः महिलाः किशोर्यः च उपस्थिताः आसन्।-------------

Hindusthan Samachar / Dheeraj Maithani