स्वास्थ्यमन्त्री इरफ़ान-अंसारी तथा शिल्पी-तिर्की इत्येताभ्यां ‘मायरा-पॉलीक्लिनिक’ इत्यस्य उद्घाटनं कृतम्
राँचीनगरम्, ०३ जूनमासः (हि.स.)। झारखण्ड-राज्यस्य स्वास्थ्यमन्त्री डॉ.इरफ़ान-अंसारी तथा कृषिमन्त्री शिल्पी-नेहा-तिर्की बुधवासरे राँची-नगरस्य मौलाना-आज़ाद-कालोनी-क्षेत्रे अत्याधुनिक-सुविधाभिः सुसज्जितस्य ‘मायरा-पॉलीक्लिनिक’ इत्यस्य संयुक्तरूपेण उद्घा
पाॅलिक्लिनीक का उद्धाटन करते दोंनो मंत्रियों सहित अन्य की तस्वीर


राँचीनगरम्, ०३ जूनमासः (हि.स.)। झारखण्ड-राज्यस्य स्वास्थ्यमन्त्री डॉ.इरफ़ान-अंसारी तथा कृषिमन्त्री शिल्पी-नेहा-तिर्की बुधवासरे राँची-नगरस्य मौलाना-आज़ाद-कालोनी-क्षेत्रे अत्याधुनिक-सुविधाभिः सुसज्जितस्य ‘मायरा-पॉलीक्लिनिक’ इत्यस्य संयुक्तरूपेण उद्घाटनं कृतवन्तौ। अस्मिन् अवसरे जनप्रतिनिधयः, चिकित्सकाः, शिक्षाविदः तथा समाजस्य विविध-वर्गाणां जनाः उपस्थिताः आसन्।

मुख्यातिथिरूपेण उपस्थितः स्वास्थ्यमन्त्री डॉ.इरफ़ान-अंसारी अवदत् यत् स्वास्थ्यं कस्यापि समाजस्य महत्तमा सम्पत्तिः अस्ति तथा राज्य-सर्वकारस्य प्राथमिकता गुणवत्तायुक्त-स्वास्थ्य-सेवानां समाजस्य अन्तिम-जनपर्यन्तं प्रापणम् अस्ति। तेन ‘मायरा-पॉलीक्लिनिक’ इत्यस्य स्थापनां प्रशंसनीय-प्रयासरूपेण वर्णयित्वा उक्तं यत् एतत् संस्थानं केवलं चिकित्सायाः केन्द्रं न, अपितु मानव-सेवायाः प्रतीकम् अपि अस्ति।

स्वास्थ्यमन्त्री अवदत् यत् अत्र उपलब्धाः आधुनिक-परीक्षण-सुविधाः, विशेषज्ञ-चिकित्सकानां सेवाः तथा चतुर्विंशति-घण्टा-आपत्कालीन-चिकित्सा-व्यवस्था क्षेत्रस्य सहस्रशः परिवाराणां कृते उत्तम-स्वास्थ्य-सेवानां प्रदाने महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। तेन संस्थापकं डॉ. ताबां-रिजवी तथा तस्य सम्पूर्णां कार्यदलम् अभिनन्द्य उक्तं यत् सर्वकारः स्वास्थ्य-क्षेत्रे एतादृश्य: जनहितकारी-उपक्रमाः सदैव प्रोत्साहयिष्यति।

विशिष्टातिथिरूपेण उपस्थितया कृषिमन्त्रिणा शिल्पी-नेहा-तिर्कि-इत्यनया उक्तं यत् कस्यापि समाजस्य समग्र-विकासः तदैव सम्भवति यदा तस्य नागरिकाः स्वस्थाः भवन्ति। तया महिलानां, बालकानां, वृद्धानां तथा वञ्चित-वर्गाणां कृते गुणवत्तायुक्त-स्वास्थ्य-सेवानां उपलब्धेः आवश्यकतायां बलं दत्तम्। तया विश्वासः व्यक्तीकृतः यत् एतत् पॉलीक्लिनिक् क्षेत्रस्य जनानां कृते श्रेष्ठ-चिकित्सा-सुविधानां प्रदाने महत्त्वपूर्णं योगदानं दास्यति।

कार्यक्रमे राँची-नगरस्य शल्यचिकित्स: डॉ.प्रभात-कुमारः अवदत् यत् चिकित्साक्षेत्रे समयस्य अत्यधिकं महत्त्वम् अस्ति। बहुषु प्रसङ्गेषु समये उपचारस्य अभावात् रोगिणां स्थितिः गम्भीरा भवति। अतः ‘मायरा-पॉलीक्लिनिक’ इत्यादृशानि संस्थानानि स्वास्थ्य-व्यवस्थायाः सुदृढीकरणे रोगिभ्यः समये उपचार-प्रदाने च महत्त्वपूर्णां भूमिकां निर्वहन्ति।

कार्यक्रमं सम्बोधयन् ‘मायरा-पॉलीक्लिनिक’ इत्यस्य संस्थापकः डॉ. ताबां-रिजवी अवदत् यत् एतत् संस्थानं केवलं चिकित्साकेन्द्रं न, अपितु क्षेत्रस्य दरिद्राणां, श्रमिकाणां, मध्यमवर्गीयानां तथा आवश्यकतासम्पन्न-परिवाराणां कृते आशा-विश्वासयोः केन्द्रं भविष्यति। तेन उक्तं यत् आधुनिक-स्वास्थ्य-सुविधानां सामान्य-जनानां समीपं प्रापणम् एव संस्थानस्य प्रमुखम् उद्देश्यम् अस्ति।

समारोहे झारखण्ड-वक्फ-परिषद: सदस्यः इबरार-अहमदः, अञ्जुमन्-इस्लामिया-संस्थायाः अध्यक्षः मुख्तार-अहमदः तथा बहुसंख्यकाः चिकित्सकाः, शिक्षाविदः, समाजसेवकाः, गणमान्य-नागरिकाश्च उपस्थिताः आसन्। कार्यक्रमस्य अवसरे अतिथिभिः संस्थानस्य निरीक्षणम् अपि कृतम् तथा उपलब्ध-स्वास्थ्य-सुविधानां विषये सूचना प्राप्ता।

Hindusthan Samachar / Divya Ranjan