डीके शिवकुमारःअद्य संभालयिष्यति कर्नाटकस्य नेतृत्वम्
बेंगलुरुः, 03 जूनमासः (हि.स.)। कर्णाटकस्य बागडोरम् अद्य डीके शिवकुमारः (डोड्डालहल्ळि केम्पेगौड शिवकुमारः) स्वीकर्तुं गच्छति। राज्यपालः थावरचन्द गहलोतः तम् पञ्चविंशतितमस्य मुख्यमन्त्रिणः रूपेण सायंकाले ४:०५ वादने पदगोपनीयतायाः शपथं दास्यति। शपथग्र
Invitation


Lokbhavan file photo


बेंगलुरुः, 03 जूनमासः (हि.स.)।

कर्णाटकस्य बागडोरम् अद्य डीके शिवकुमारः (डोड्डालहल्ळि केम्पेगौड शिवकुमारः) स्वीकर्तुं गच्छति। राज्यपालः थावरचन्द गहलोतः तम् पञ्चविंशतितमस्य मुख्यमन्त्रिणः रूपेण सायंकाले ४:०५ वादने पदगोपनीयतायाः शपथं दास्यति। शपथग्रहणसमारोहः बेङ्गळूरुनगरे स्थिते लोकभवने ग्लासहाउस इत्यत्र भविष्यति।

लोकभवनम् विशेषरूपेण अलङ्कृतम् अस्ति। राजधानीनगरस्य विभिन्नेषु भागेषु डीके शिवकुमारस्य आदमकद कटआउट् तथा बैनराः स्थापिताः सन्ति।

शान्तेः, सौहार्दस्य तथा सर्वधर्मसमभावस्य सन्देशं दातुं विभिन्नधर्मानां नेतारः आमन्त्रिताः सन्ति। आदिचुञ्चनगिरि मठः, सिद्धगङ्गा मठः, सुत्तूर मठः, तरलाबालु मठः, पेजावर मठः तथा रम्भापुरी मठस्य सन्ताः, आर्ट् आफ् लिविङ्ग् संस्थायाः श्री श्री रविशङ्करः च समारोहेषु उपस्थिताः भविष्यन्ति। चर्चायाः आर्चबिशपः डॉ. पीटर मचाडो तथा मुस्लिमसमुदायस्य धर्मगुरवः अपि आमन्त्रिताः सन्ति। सर्वधर्मप्रतिनिधीनां पञ्चपञ्चाशताधिकाः जनाः समारोहेषु सहभागीभवन्ति।

सोनिया गान्धी, राहुल गान्धी, प्रियङ्का गान्धी वाड्रा, काङ्ग्रेसाध्यक्षः मल्लिकार्जुन खरगे, रणदीपसिंह सुरजेवाला तथा केसी वेणुगोपालः इत्यादयः अनेकाः वरिष्ठनेतारः शपथग्रहणसमारोहेषु भागं ग्रहीष्यन्ति। काङ्ग्रेसशासितराज्यानां मुख्यमन्त्रिणः अपि उपस्थिताः भविष्यन्ति इति सम्भावना वर्तते। चलचित्र, उद्योग, क्रीडा तथा अन्येषां क्षेत्राणां प्रमुखव्यक्तीनां कृते प्रायः ११०० आसनानां व्यवस्था कृता अस्ति। अतिथीनां प्रवेशार्थं त्रिस्तरीया विशेषपासव्यवस्था प्रवर्तिता अस्ति।

सुरक्षाव्यवस्थां दृष्ट्वा वसन्तनगरस्थितः शाङ्ग्रीला होटेलः तथा केपीसीसी कार्यालयस्य एककिलोमीटरपर्यन्तः प्रदेशः ‘नो फ्लाइ जोन’ इति घोषितः अस्ति। यातायातस्य तथा सुरक्षाप्रबन्धस्य सुचारुरक्षणार्थं विधानसौधः, विकाससौधः तथा एम् एस् बिल्डिङ्ग् इत्येषां कार्यालयानां कर्मचारिणां कृते अर्धदिवसीयावकाशः घोषितः अस्ति।

---------------