उपराज्यपालो दिल्ली स्कूल ऑफ इकोनॉमिक्स इत्यस्य सीडीई-आईईडीएस अंताराष्ट्रिये सम्मेलने सम्मिलितः
नव दिल्ली, 03 जूनमासः (हि.स.)।दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंह संधूः बुधवासरे दिल्ली स्कूल् आफ् इकोनॉमिक्स् संस्थायां आयोजिते सीडीई-आईईडीएस अन्ताराष्ट्रियसम्मेलने सहभागी अभवत्। अस्मिन् अवसरे तेन सम्मेलनस्य सहभागिनः प्रतिष्ठितविद्वांसः, शिक्षाविद
उपराज्यपाल तरनजीत सिंह संधू अंतरराष्ट्रीय सम्मेलन को संबोधित करते हुए।


नव दिल्ली, 03 जूनमासः (हि.स.)।दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंह संधूः बुधवासरे दिल्ली स्कूल् आफ् इकोनॉमिक्स् संस्थायां आयोजिते सीडीई-आईईडीएस अन्ताराष्ट्रियसम्मेलने सहभागी अभवत्। अस्मिन् अवसरे तेन सम्मेलनस्य सहभागिनः प्रतिष्ठितविद्वांसः, शिक्षाविदः तथा छात्राः शुभकामनाभिः अभिनन्दिताः।

उपराज्यपालः तरनजीतसिंह संधू अन्ताराष्ट्रियसम्मेलनं सम्बोधयन् आर्थिकविकासस्य, जनसांख्यिकीयपरिवर्तनस्य तथा पर्यावरणीयस्थिरतायाः मध्ये महत्त्वपूर्णम् अन्तरसम्बन्धं प्रति विशेषं बलम् अददात्। तेन उक्तं यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनो दृष्टिकोणः अस्ति यत् विकासः तथा पर्यावरणप्रबन्धनम् उभयं सहैव अग्रे नेतव्यम्। तेन उक्तं यत् अस्माकं ध्यानम् आर्थिकदृष्ट्या गतिशीलस्य, तकनीकीदृष्ट्या नवोन्मेषयुक्तस्य तथा पर्यावरणदृष्ट्या उत्तरदायिनः निर्माणस्य उपरि केन्द्रितं वर्तते।

उपराज्यपालः उक्तवान् यत् विकसितभारतस्य कृते दिल्लीसदृशानि शीघ्रवर्धमानानि नगरीयकेन्द्राणि मानवक्षमतां अवसरैः सह संयोज्य, हरितावरणस्य विस्तारं कृत्वा, स्थायिनगरीययोजनां सुदृढीकृत्य तथा दीर्घकालिकलचीलतायै नवीकरणीयऊर्जाक्षेत्रे निवेशं कृत्वा मार्गं प्रशस्तं कुर्वन्तु।

अस्मिन् अवसरे दिल्लीविश्वविद्यालयस्य कुलपतिना प्रो. योगेश सिंहेन सह प्रतिष्ठितविद्वांसः, शिक्षाविदः तथा छात्राः अपि उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani