Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 जूनमासः (हि.स.)।दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंह संधूः दिल्ली नगर निगमम् (एमसीडी) भवननिर्माणसम्बद्धनियमानां कठोरतया पालनं सुनिश्चितं कर्तुं तथा अवैधनिर्माणेषु निर्णायककार्यवाहीं कर्तुं निर्देशान् दत्तवान्।
उपराज्यपालः तरनजीतसिंह संधू बुधवासरे निगमायुक्तेन संजीव खिरवार महोदयेन तथा एमसीडी संस्थायाः वरिष्ठाधिकारिभिः सह उच्चस्तरीयसमीक्षोपवेशनं कृतवान्। अस्मिन् उपवेशने नगरीयप्रशासनम्, नागरिकसुविधाः तथा राजधानीनगरे संरचनात्मकसुरक्षां सुदृढीकर्तुं व्यापककार्ययोजनायाः विषये चर्चा कृता।
उपवेशने उपराज्यपालः उक्तवान् यत् अवैधरूपेण क्रियमाणानि अतिरिक्तनिर्माणानि तथा भवनविस्ताराः नगरस्य सुरक्षायै गम्भीरं संकटं निर्मान्ति। तेन एमसीडी संस्थां समयबद्धरणनीतिं निर्माय अनधिकृतनिर्माणानां विरुद्धं कठोरकार्यवाहीं कर्तुम् आदेशः दत्तः।
समीक्षोपवेशने तेन सम्बद्धाधिकारिभ्यः वर्षाकालात् पूर्वं नालिकानां स्वच्छता, मार्गाणां तथा पादचारिपथानां मरम्मतकार्याणि, धूलिप्रदूषणनियन्त्रणम् तथा कूड़ानिस्तारणव्यवस्थायाः सुधारः इत्यादिषु कार्येषु शीघ्रतां कर्तुं निर्देशाः दत्ताः।
उपराज्यपालः अनधिकृतकालोनीनां निवासिभ्यः स्वामित्वाधिकारं प्रदात्री प्रधानमंत्री-उदय योजना इत्यस्य क्रियान्वयने शीघ्रतायाः आवश्यकता अस्ति इति बलम् अददात्। सहैव तेन सार्वजनिकउद्यानानां विकासाय पुनर्जीवनाय च कॉरपोरेट सामाजिकउत्तरदायित्व (सीएसआर) आधारितसहभागिमॉडलस्य शीघ्रमन्तिमरूपदाने निर्देशाः दत्ताः।
उपराज्यपालः उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनः समावेशिविकासदृष्टेः अनुरूपं दिल्लीवासिभ्यः सुरक्षितं, स्वच्छं, सुव्यवस्थितं तथा सम्मानजनकजीवनपर्यावरणं प्रदातुं प्रशासनस्य प्राथमिकता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani