Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०३ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यसचिवस्य अनुराग-जैन-महाभागस्य अध्यक्षतायां विश्व-पर्यावरण-दिवसस्य तथा अन्ताराष्ट्रिय-योग-दिवसस्य उपलक्ष्ये जन-कल्याणकारी-योजनानां क्रियान्वयनार्थम् आयोज्यमानस्य विशेष-अभियानस्य सम्बन्धे अद्य समीक्षा-सभा आयोजिता अस्ति।
एषा सभा प्रातः ११ वादनात् आरभ्य दृश्यश्रव्य-सम्मेलन-माध्यमेन (वीडियो-कॉन्फरेन्सिङ्ग्) भविष्यति। अस्यां सभायां पर्यावरण-विभागस्य, पञ्चायत-ग्रामीण-विकास-विभागस्य, नगरीय-विकास-आवास-विभागस्य, किसान-कल्याण-कृषि-विकास-विभागस्य, आयुष-विभागस्य तथा लोक-सेवा-प्रबन्धन-विभागस्य कार्याणां समीक्षा करिष्यते।
सभायां सहभागार्थं सर्वेषां सम्बद्ध-अधिकारिणां उपस्थितेः निर्देशाः प्रदत्ताः।
Hindusthan Samachar / Divya Ranjan