माय भारतद्वारा शुभारब्धः ‘विकसित वाइब्रेंटग्रामकार्यक्रमः 2026’, सीमावर्तिषु ग्रामेषु युवभागितायै मेलिष्यति वृद्धिः
नव दिल्ली, 03 जूनमासः (हि.स.)।युवकार्यक्रमक्रीडामन्त्रालयस्य युवकार्यविभागस्य अधीनसञ्चालितेन मम युवा भारत कार्यक्रमेण विकसित वाइब्रेंटग्रामकार्यक्रमस्य २०२६ प्रथमचरणस्य आरम्भः कृतः। अस्य प्रयत्नस्य उद्देश्यं सीमावर्तिग्रामेषु यूनां सक्रियसहभागिता
मेरे युवा भारत के वालंटियर


नव दिल्ली, 03 जूनमासः (हि.स.)।युवकार्यक्रमक्रीडामन्त्रालयस्य युवकार्यविभागस्य अधीनसञ्चालितेन मम युवा भारत कार्यक्रमेण विकसित वाइब्रेंटग्रामकार्यक्रमस्य २०२६ प्रथमचरणस्य आरम्भः कृतः। अस्य प्रयत्नस्य उद्देश्यं सीमावर्तिग्रामेषु यूनां सक्रियसहभागितायाः वर्धनं राष्ट्रियैकतायाः सुदृढीकरणं सततविकासस्य प्रोत्साहनं च अस्ति।

अयं कार्यक्रमः द्वयोः चरणयोः कार्यान्वितः भविष्यति। अस्य अन्तर्गतं देशस्य विविधभागेभ्यः चयनिताः पञ्चशतं एमवाई भारत स्वयंसेवकाः सीमावर्तिक्षेत्रेषु एकसप्ताहपर्यन्तं निवसन्तः स्थानीयसमुदायैः सह कार्यं करिष्यन्ति। एतेषां स्वयंसेवकानां चयनं राष्ट्रव्यापिन्या अन्तर्जालाधारितप्रश्नमञ्चप्रतियोगितया कृतम्। अस्यां प्रतियोगितायां त्रिलक्षाधिकाः युवानः सहभागिनः अभवन्।

प्रथमचरणे द्विशत्पञ्चाशत् स्वयंसेवकाः लद्दाख हिमाचलप्रदेश उत्तराखण्डराज्येषु स्थितेषु त्रिचत्वारिंशत्सीमावर्तिग्रामेषु कार्यं करिष्यन्ति। अवशिष्टाः द्विशत्पञ्चाशत् स्वयंसेवकाः अस्मिन्नेव मासे द्वितीयचरणे पञ्चाशद्ग्रामेषु विविधगतिविधिषु सहभागं करिष्यन्ति।

अयं कार्यक्रमः युवभ्यः सीमावर्तिक्षेत्राणां सामाजिक आर्थिक सांस्कृतिकजीवनस्य समीपात् अवगमनस्य अवसरं प्रदास्यति। स्वयंसेवकाः ग्रामनिवासिभिः पंचायतिसंस्थाभिः स्थानीयप्रशासनेन सुरक्षाबलैः च सह संवादं करिष्यन्ति। एतेषां क्षेत्राणां विकासस्य सामरिकमहत्त्वस्य च विषये अपि सूचनां प्राप्स्यन्ति।

सप्तदिवसीयः अयं कार्यक्रमः अनेकविषयाधारितः अस्ति। तेषु सीमावर्तिजागरूकता सांस्कृतिकविनिमयः सामुदायिकजीवनम् सुशासनम् सामाजिकआर्थिकअध्ययनम् ग्रामविकासयोजना स्वयंसेवा राष्ट्रीयैक्यं च समाविष्टानि सन्ति।

स्वयंसेवकाः गृहगृहसर्वेक्षणं करिष्यन्ति। ग्रामसभागतिविधिषु सहभागं करिष्यन्ति। स्वच्छतापर्यावरणअभियानेषु सहयोगं दास्यन्ति। ग्रामेषु विकासस्य सम्भावनानां परिचयं च करिष्यन्ति।

कार्यक्रमस्य प्रमुखभागरूपेण नेशन फर्स्ट चैलेंज इत्येतत् अभियानम् अपि सञ्चाल्यते। अस्य अन्तर्गतं स्वयंसेवकाः पञ्च प्रमुखविषयेषु जनजागरूकतां प्रसारयिष्यन्ति। एते विषयाः सन्ति

स्वदेशीउत्पादानां स्वीकृतिः

स्वस्थभोजनपद्धतेः प्रोत्साहनम्

सार्वजनिकपरिवहनस्य ईंधनसंरक्षणस्य च संवर्धनम्

प्राकृतिककृषेः प्रोत्साहनम्

स्थानीयपर्यटनस्य विकासः

अयं कार्यक्रमः गृहमन्त्रालयस्य भारत तिब्बत सीमापुलिसबलस्य च सहयोगेन कार्यान्वितः भवति। अस्य उद्देश्यं युवानां सहभागितायाः माध्यमेन विकसितभारत २०४७ इति लक्ष्यस्य सुदृढीकरणम् अस्ति। कार्यक्रमस्य सफलसञ्चालनार्थं राष्ट्रियराज्यजिलास्तरेषु नियन्त्रणकक्षाः नोडलाधिकारीणः ग्रामकार्ययोजनाः प्रशिक्षणसत्राणि अन्यव्यवस्थाः च पूर्वमेव सज्जीकृताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani