Enter your Email Address to subscribe to our newsletters

काठमांडूः, 03 जूनमासः (हि.स.)।
नेपाल-सर्वकारेण स्थल-सीमा-नाकाभ्यः आगच्छतां गच्छतां च यात्रिकाणां कृते सामान-आनयनस्य सीमा वर्धिता अस्ति। अधुना सीमा-परिगमने शत-रूप्यकाणां स्थाने पञ्चशत-रूप्यक-पर्यन्तं निजी-उपयोगस्य वस्तूनि सीमा-शुल्कं विना आनेतुं नेतुं च अनुमतिः प्रदत्ता अस्ति। वित्त-मन्त्रालयेन यात्रिभिः सह आनियमाणानां नीयमानानां च वस्तूनां सम्बन्धे नवीनः नियमः प्रकाशितः, येन एषा व्यवस्था प्रवर्तिता अस्ति। अस्य पूर्वं एषा सीमा केवलं शत-रूप्यक-पर्यन्तं निर्धारितासीत्।
राजपत्रे प्रकाशित-अधिसूचनानुसारं स्थल-मार्गेण सीमा-परिगमनं कुर्वन्तः व्यक्तयः अद्यापि वायुयान-यात्रिकाणां सदृशाः सर्वाः सुविधाः न प्राप्नुवन्ति। तथापि यदि कश्चित् यात्रिकः पञ्चशत-रूप्यक-पर्यन्तानि निजी-उपयोगस्य सामानानि स्वसह आगच्छति नयति वा, तर्हि आवश्यकता-औचित्ययोः आधारेण तस्मै शुल्कं विना अनुमतिः दातुं शक्यते।
भारतदेशे अध्ययनरत-नेपाली-छात्राणां कृते पूर्ववत् विशेष-सुविधा यथावत् स्थापिता अस्ति। अस्य अन्तर्गतं ते स्वसह आनितयोः टैबलेट अथवा कम्प्यूटर-यन्त्रयोः एकं यन्त्रं नेपालदेशं प्रति आनयन्तः कस्यापि शुल्कस्य भुगतानं विना आनेतुं शक्नुवन्ति।
ज्ञातव्यं यत् २०२५ तमस्य वर्षस्य मई-मासे प्रकाशित-अधिसूचनानुसारं सीमा-नाकेषु शत-रूप्यकात् अधिक-मूल्यस्य सामानस्य आनयने प्रतिबन्धः प्रवर्तितः आसीत्। अस्य नियमस्य कार्यान्वयन-समये कतिपय-सप्ताहपूर्वं नेपाल-भारत-सीमा-प्रदेशेषु खिन्नतायाः स्थितिः अपि उत्पन्ना आसीत्। एषः विषयः नेपालस्य संसदि अपि उत्थापितः आसीत्।
नेपालस्य वित्तमन्त्री स्वर्णिम-वागले उक्तवान् आसीत् यत् एषः नियमः पूर्ववर्तिनी-सरकारेण निर्मितः आसीत् तथा वर्तमान-सरकारः सीमायां शिथिलतां वर्धयितुं विचारं करिष्यति। तेन सीमा-प्रदेशस्य जनानां कृते रक्षण-प्रदानस्य आश्वासनम् अपि दत्तम् आसीत्।
सीमा-प्रदेशस्य नेपाली-व्यापारिभिः सर्वकारस्य अस्य निर्णयस्य स्वागतं कृतम् अस्ति। सर्वकारेण पूर्वमपि अनेकेषु अवसरिषु अस्य नियमस्य कठोरतया कार्यान्वयनस्य प्रयासः कृतः, किन्तु अपेक्षिता सफलता न प्राप्ता। नवीनः संशोधनः सीमा-प्रदेश-निवासिनां लघु-व्यापारिणां च कृते आनुकूल्यरूपेण दृश्यते।
----------
Hindusthan Samachar / Dheeraj Maithani