Enter your Email Address to subscribe to our newsletters

कठुआ, 03 जूनमासः (हि.स.)।
अद्यतन-डिजिटल-युगे यत्र सूचनायाः अनेकानि माध्यमानि उपलब्धानि सन्ति, तत्र समाचारपत्राणि अद्यापि सर्वाधिकविश्वसनीय-प्रमाणिक-स्रोत-रूपेण स्वीयां परिचितिं धारयन्ति। दैनिक-समाचारात् आरभ्य कस्यचित् विषयस्य गहन-विस्तृतसूचनापर्यन्तं समाचारपत्राणि अस्मभ्यं संतुलितां परीक्षितां तथ्यपूर्णां च सामग्रीं प्रददति। दूरदर्शन-समाचाराः सामान्य-चर्चाः वा प्रायः काल-सीमया बद्धाः भवन्ति, येन विषयस्य पूर्णा जानकारी प्राप्तुं न शक्यते, किन्तु समाचारपत्राणि प्रत्येकं पक्षं विस्तारेण प्रस्तुतयन्ति।
सामाजिक-माध्यमानां वर्धमान-प्रभावस्य मध्ये सम्यक् असम्यक्-जानकार्योः मध्ये भेदं कर्तुं कठिनं जातम् अस्ति। सत्यापनं विना प्रसारिताः वार्ताः अनेकवारं भ्रमं जनयन्ति। एतादृशे समये समाचारपत्राणां विश्वसनीयता अधिकमहत्त्वपूर्णा भवति। अस्माभिः सामाजिक-माध्यमेषु अन्धानुकरणं न कर्तव्यं, अपितु समाचारपत्रवत् प्रमाणिक-स्रोतांसि प्राथमिकतया स्वीकरणीयाः, येन अस्मभ्यं सम्यक् तथ्यपूर्णा च जानकारी प्राप्येत।
समाचारपत्राणि केवलं समाचारपर्यन्तं सीमितानि न सन्ति, अपितु ज्ञानस्य विशालः भण्डारः अपि सन्ति। देशविदेशयोः घटनाः राजनीति व्यापारः क्रीडा विज्ञानं शिक्षा मनोरञ्जनं सामाजिकविषयाश्च इत्येषां जानकारीभिः सह तत्र वर्गपहेलिकाः स्वास्थ्यसम्बद्ध-लेखाः फैशन भोजनसम्बद्ध-विषयाः रोचक-कथाः च अपि समाविष्टाः भवन्ति। अनेन न केवलं अस्माकं सामान्यज्ञानं वर्धते, अपितु भाषा शब्दभण्डारश्च अपि परिष्कृतौ भवतः।
अनेके जनाः प्रातःकाले चायापानेन सह समाचारपत्रं पठित्वा स्वदिनस्य आरम्भं कुर्वन्ति, या एकाऽ उत्तमा आदतिः अस्ति। एषा आदतिः मनुष्यं जागरूकं विवेकिनं समाजेन सह सम्बद्धं च करोति। प्रतियोगी-परीक्षासु विशेषतः आईएएस इत्यादि-प्रतिष्ठित-परीक्षाणां सिद्धतायाम् अपि समाचारपत्राणि महत्त्वपूर्णां भूमिकां निर्वहन्ति, यतः तेषु सामयिक-घटनानां विस्तृत-विश्लेषणं लभ्यते।
समाचारपत्र-पठनानन्तरम् अपि तेषां अनेकाः उपयोगाः भवन्ति। पुरातन-समाचारपत्रैः वस्तूनां आवरणं स्वच्छीकरणं आलमारिषु विस्तारणं च क्रियते, तदतिरिक्तं सुन्दर-हस्तशिल्पानि सजावटी-वस्तूनि च निर्मीयन्ते। एवं समाचारपत्राणि उपयोगिनि सन्ति तथा सृजनात्मकतां अपि वर्धयन्ति।
यदि बालकानां मध्ये बाल्यकालात् एव समाचारपत्र-पठनस्य आदतिः स्थाप्यते, तर्हि तेषु पठनरुचिः विकसिताभवति तथा तेषां मानसिक-विकासः श्रेष्ठः भवति। एषा आदतिः तेषां व्यक्तित्व-निर्माणाय उज्ज्वल-भविष्याय च अत्यन्तं सहायिका सिद्धा भवति।
ग्रामे ग्रामे समाचारप्रसारणे समाचारपत्राणां ऐतिहासिकी भूमिका अस्ति। अद्यापि प्रौद्योगिकी-युगे समाचारपत्राणि स्वीय-गुणवत्तया विश्वसनीयतया च जनानां मध्ये सम्मानितानि सन्ति। तेषां प्रकाशने संलग्नानां प्रत्येकस्य व्यक्तेः परिश्रमः प्रशंसनीयः अस्ति, ये प्रतिदिनं प्रातःकाले अस्मभ्यं नवीन-समाचारान् उपलब्धान् कुर्वन्ति।
अन्ततः वक्तुं शक्यते यत् पुरातन-वस्तूनां महत्त्वं कदापि न्यूनं न भवति। समाचारपत्राणि अस्य सर्वोत्तमम् उदाहरणम् सन्ति। अस्माभिः नियमितरूपेण समाचारपत्रं पठित्वा स्वज्ञानं वर्धनीयम् तथा अस्य महत्त्वपूर्णस्य माध्यमस्य प्रोत्साहनं करणीयम्।
---------------