आयुर्वेद-विश्वविद्यालयस्य कुलगुरुणा पर्यावरण-संरक्षणस्य शपथः प्रदत्त:
जोधपुरम्, ०३ जूनमासः (हि.स.)। डॉ.सर्वपल्ली-राधाकृष्णन्-राजस्थान-आयुर्वेद-विश्वविद्यालये कुलगुरोः प्रो. (वैद्य) गोविन्दसहाय-शुक्लस्य मार्गदर्शनेन मानव-संसाधन-विकास-केन्द्रेण सञ्चालितस्य कण्टीन्यूअस-कैपेसिटी-बिल्डिङ्ग-प्रोग्राम-२०२६ इत्यस्य अन्तर्गतं
jodhpur


जोधपुरम्, ०३ जूनमासः (हि.स.)। डॉ.सर्वपल्ली-राधाकृष्णन्-राजस्थान-आयुर्वेद-विश्वविद्यालये कुलगुरोः प्रो. (वैद्य) गोविन्दसहाय-शुक्लस्य मार्गदर्शनेन मानव-संसाधन-विकास-केन्द्रेण सञ्चालितस्य कण्टीन्यूअस-कैपेसिटी-बिल्डिङ्ग-प्रोग्राम-२०२६ इत्यस्य अन्तर्गतं विशेष-व्याख्यानस्य विभागीय-प्रस्तुतीनां च आयोजनं कृतम्।

कार्यक्रमे कुलगुरुः उक्तवान् यत् सततं शैक्षणिक-गतिविधयः विद्यार्थिनां शिक्षकाणां च ज्ञानं कौशलं अनुसन्धान-क्षमतां च सुदृढां कुर्वन्ति। सः अवदत् यत् विश्वविद्यालये आयोजिताः एतादृशाः कार्यक्रमाः नवाचारस्य, नैदानिक-दक्षतायाः तथा शैक्षणिक-गुणवत्तायाः संवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति। अस्मिन् अवसरे तेन शिक्षकाः छात्राः च पर्यावरण-संरक्षणस्य शपथां ग्राहिता:।

कार्यक्रमस्य प्रथमसत्रे पीजीआईए-संस्थायाः प्रसूति-तन्त्र-स्त्रीरोग-विभागस्य स्नातकोत्तर-अध्येता डॉ. प्रियंका-गायकवाड् व्याख्यानं प्रस्तुतवती। तया गर्भाशय-ग्रीवा-क्षरणस्य (सर्वाइकल-इरोजन) कारणानि, लक्षणानि, निदानम् उपचारः च इत्येते विषयाः प्रकरणाधारित-दृष्ट्या विस्तरेण विवृता:। ततः परं प्रो. चन्दनसिंहेन विभागीय-प्रस्तुतिः प्रदत्ता। प्रस्तुतौ विभागस्य शैक्षणिक-गतिविधयः, अनुसन्धान-कार्याणि, औषधीय-वनस्पतिषु क्रियमाण-अध्ययनानि तथा भविष्य-योजनानां विषये सूचना प्रदत्ता।

कार्यक्रमस्य तृतीयसत्रे डॉ. प्रवीणकुमारः विभागीय-प्रस्तुतिं प्रदाय विषविज्ञानस्य फॉरेन्सिक-आयुर्वेदस्य च सम्बद्धानां शैक्षणिक-अनुसन्धान-गतिविधीनां विवरणं प्रस्तुतवान्।

Hindusthan Samachar / Divya Ranjan