वृक्षारोपणाय एवं पर्यावरण संरक्षणाय च जनांदोलनस्य स्वरूपदानम् आवश्यकम् : वंदनाअग्रवालः
--महिला कल्याण समितिः रेलवे ट्रैफिकवसत्यां विहितवती पाैधरोपणम् प्रयागराजः, 03 जूनमासः (हि.स)। प्रयागराजमण्डले क्लाइमेट चेंज इति विषयाधारितस्य पञ्चदशमईतः पञ्चमजूनपर्यन्तं सञ्चालितस्य विश्वपर्यावरणदिवसअभियानस्य अन्तर्गतं बुधवासरे महिलाकल्याणसमित्या
रजनीश अग्रवाल


वंदना अग्रवाल


--महिला कल्याण समितिः रेलवे ट्रैफिकवसत्यां विहितवती पाैधरोपणम्

प्रयागराजः, 03 जूनमासः (हि.स)। प्रयागराजमण्डले क्लाइमेट चेंज इति विषयाधारितस्य पञ्चदशमईतः पञ्चमजूनपर्यन्तं सञ्चालितस्य विश्वपर्यावरणदिवसअभियानस्य अन्तर्गतं बुधवासरे महिलाकल्याणसमित्या प्रयागराजमण्डलेन रेलयातायातकालोनीक्षेत्रे वृक्षारोपणकार्यक्रमस्य आयोजनं कृतम्।

कार्यक्रमे महिलाकल्याणसमितेः प्रयागराजमण्डलस्य अध्यक्षा वन्दनाअग्रवाल इत्यनया वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य हरितभविष्यस्य च प्रति स्वप्रतिबद्धता व्यक्ता। तया उक्तं यत् जलवायुपरिवर्तनं वर्तमानकाले प्रमुखासु चुनौतिषु अन्यतमम् अस्ति। तस्य प्रभावन्यूनीकरणार्थं वृक्षारोपणं पर्यावरणसंरक्षणं च जनान्दोलनरूपेण विकसितुं आवश्यकम्। तया सर्वेभ्यः अधिकाधिकवृक्षारोपणस्य तेषां संरक्षणस्य च संकल्पग्रहणाय आह्वानं कृतम्।

कार्यक्रमस्य समये रेलकालोनीपरिसरे विविधप्रजातीनां छायादारिणां पर्यावरणानुकूलानां च पौधानां रोपणं कृतम्। उपस्थितजनान् पौधानां नियमितपरिचर्यायाः संरक्षणस्य च प्रति अपि जागरूकाः कृताः। एते पादपाः भविष्ये सुदृढवृक्षरूपेण विकसिताः भूत्वा पर्यावरणसंरक्षणे योगदानं दास्यन्ति।

अस्मिन् अवसरे महिलाकल्याणसमितेः उपाध्यक्षा गुलशनवारिस प्रज्ञादीपककुमार वन्दनासिंह सचिवा निहारिकासिंह अनुश्री अन्याः सदस्याः च उपस्थिताः आसन्। सर्वाभिः सदस्याभिः पर्यावरणसंरक्षणस्य स्वच्छतायाः हरितवातावरणस्य च संवर्धनार्थं निरन्तरप्रयत्नस्य संकल्पः गृहीतः।

अस्मिन्नेव क्रमॆ मण्डलरेलप्रबन्धकः रजनीशअग्रवाल सिविललाइन्सक्षेत्रे स्थितायां रेललोकोकालोनीस्थिते दशममार्गे वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशं दत्तवान्। तेन उक्तं यत् अभियानस्य अन्तर्गतं प्रयागराजमण्डलस्य विभिन्नेषु रेलस्थानकेषु एकः वृक्षः मातुः नाम्ना इति प्रयत्नस्य अन्तर्गतं व्यापकवृक्षारोपणकार्यक्रमाः सञ्चाल्यन्ते। तेन सह रेलस्थानकेषु उद्यानेषु कालोनीक्षेत्रेषु च स्वच्छहरितवातावरणस्य सुनिश्चित्यर्थं विशेषस्वच्छताअभियानानि वृक्षारोपणगतिविधयः च आयोज्यन्ते। वन स्टेशन वन प्रोडक्ट योजना इत्यस्य माध्यमेन वस्त्रनिर्मितानां जूटनिर्मितानां च पर्यावरणानुकूलउत्पादानां प्रोत्साहनं क्रियते।

अस्मिन् अवसरे अपरमण्डलरेलप्रबन्धकः सामान्य दीपककुमार अपरमण्डलरेलप्रबन्धकः इन्फ्रा धनञ्जयकुमारसिंह अपरमण्डलरेलप्रबन्धकः परिचालन मो मुबश्शिरवारिस वरिष्ठमण्डलपर्यावरणगृहव्यवस्थाप्रबन्धकः विक्रमसिंहकोली अन्ये अधिकारिणः कर्मचारिणः च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani