Enter your Email Address to subscribe to our newsletters

नवदेहली, ०३ जूनमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदी-महाभागेन अद्य प्रातःकाले ‘एक्स’ माध्यमेन नागरिक-एकतायाः शक्तिः रेखाङ्किता। तेन उक्तं यत् नागरिकाणाम् एकता तथा परस्पर-सहयोगः राष्ट्रस्य शक्तिं बहुगुणितां करोति, येन राष्ट्रम् उन्नतेः शिखरं प्राप्नोति।
प्रधानमन्त्रिणा सहभाग-कृतस्य सुभाषितस्य माध्यमेन उक्तम्—
“धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ॥”
तेन लिखितम्— “यदा नागरिकाः एकतायाः तथा परस्पर-सहयोगस्य सूत्रे बद्धाः भवन्ति, तदा राष्ट्रस्य शक्तिः अनेकगुणा वर्धते। भारतवासिनाम् अस्यैव सामूहिक-सङ्कल्पस्य प्रभावेण अद्य राष्ट्रं नित्यम् उन्नतेः नूतनाः उच्चताः स्पृशति।”
उल्लेखनीयम् अस्ति यत् एषः श्लोकः महाभारतस्य उद्योगपर्वणि (प्रजागरपर्वणि) प्राप्तः अस्ति। अयं प्रसिद्धः श्लोकः एकतायाः तथा संघटनस्य महत्त्वं प्रतिपादयति।
अस्य श्लोकस्य भावार्थः अस्ति यत् यथा पृथक् पृथक् स्थितानि काष्ठानि केवलं धूमं जनयन्ति, किन्तु एकत्र स्थितानि सन्ति चेत् प्रज्वलन्ति, महान् प्रकाशं तापं च उत्पादयन्ति; तथैव समाजस्य परिवारस्य च सदस्याः यदा परस्पर-विरोधान् विस्मृत्य एकतया तिष्ठन्ति, तदा ते महतीम् अपि विपत्तिं सुकरतया सामना कर्तुं समर्थाः भवन्ति। एषः श्लोकः संघटनस्य सामूहिक-शक्तेः महत्त्वं स्पष्टतया प्रकाशयति।
Hindusthan Samachar / Divya Ranjan