Enter your Email Address to subscribe to our newsletters

जयपुरम्/अलवरम्, ०३ जूनमासः (हि.स.)। केन्द्रीय-कृषि-कृषक-कल्याण-राज्यमन्त्री रामनाथ-ठाकुरः बुधवासरे अलवर-जनपदस्य बगड़-राजपूत-ग्रामे ‘क्षेत्र-रक्षण-अभियानस्य’ शुभारम्भं कृतवान्। अस्मिन् अवसरे आयोजितायां कृषि-गोष्ठ्यां तेन कृषकाः रासायनिक-उर्वरकाणाम् अत्यधिक-प्रयोगेन जायमानानां हानिकारक-प्रभावानां विषये जागरूकाः कृताः तथा परम्परागत-कृषि-पद्धतेः पुनरवलम्बनस्य आह्वानं कृतम्।
कार्यक्रमस्य अवधौ केन्द्रीयमन्त्रिणा कृषि-प्रदर्शिन्याः अवलोकनम् अपि कृतम्। तेन कृषकैः सह संवादं कृत्वा कृषिक्षेत्रे नवाचारस्य प्राकृतिक-संसाधनानां संरक्षणस्य च विषये चर्चा कृता। रामनाथ-ठाकुरः अवदत् यत् प्रधानमन्त्री-नरेन्द्र-मोदिना प्रतिपादितस्य विकसित-भारत-२०४७ इत्यस्य संकल्पस्य पूर्त्यर्थं स्वस्थ-क्षेत्राणि स्वस्थ-शरीराणि च महत्त्वपूर्णम् आधारम् स्तः। अस्यैव चिन्ताधारायाः अन्तर्गतं जूनमासस्य प्रथम-दिनाङ्कात् सम्पूर्णे देशे ‘क्षेत्र-रक्षण-अभियानम्’ आरब्धम्, यत् ३० जूनपर्यन्तं सञ्चाल्यते।
तेन उक्तं यत् क्षेत्रस्य स्वास्थ्यं प्रत्यक्षरूपेण मानव-स्वास्थ्येन सम्बद्धम् अस्ति। रासायनिक-उर्वरकाणाम् अत्यधिक-प्रयोगेन भूमेः उर्वरा-शक्तिः प्रभाविताऽस्ति, तेनोत्पादिताः कृष्युत्पादाः अपि मानव-स्वास्थ्ये प्रतिकूलं प्रभावं जनयन्ति। केन्द्रीयमन्त्रिणा कृषकाः रासायनिक-उर्वरकाणां विकल्पान् स्वीकर्तुं तथा वैज्ञानिक-रीत्या जैविक-कृषेः परम्परागत-कृषेः च दिशि अग्रसरितुम् आहूताः। तेन कृषि-अधिकारिणः निर्देशिताः यत् अभियानस्य माध्यमेन कृषकाणां जागरणेन सह तेषां आधुनिक-प्रौद्योगिक्या: सर्वकारीय-योजनाभिः च संयोजनम् अपि क्रियताम्।
तेन उक्तं यत् केन्द्र-राज्य-सर्वकाराभ्यां कृषकाणाम् आय-वृद्ध्यर्थम् अनेकाः योजनाः सञ्चाल्यन्ते। कृषि-विभागस्य अधिकारिणः ग्रामं ग्रामं गत्वा कृषकेभ्यः एतासां योजनानां विषये सूचनां ददतु, येन अधिकाधिकाः कृषकाः लाभान्विताः भवेयुः।
कार्यक्रमे रामगढ़-विधानसभाक्षेत्रस्य विधायकः सुखवन्त-सिंहः अवदत् यत् कृषि-अधिकारिणां कृषकाणां च सामूहिक-प्रयत्नेन एव परम्परागत-कृषिः पुनः सुदृढा कर्तुं शक्यते। श्री-कर्ण-नरेन्द्र-कृषि-विश्वविद्यालयस्य कुलगुरुः पुष्पेन्द्र-सिंह-चौहानः तथा भारतीय-कृषि-अनुसन्धान-परिषदः अटारी-जोधपुरस्य निदेशकः डॉ. जे.पी. मिश्रः अभियानस्य उद्देश्यानि, कृषि-योजनाः तथा आधुनिक-कृषि-प्रौद्योगिकीनां विषये विस्तृतं विवरणं प्रदत्तवन्तौ।
गुजूकी-ग्रामस्य प्रगतिशील-कृषकः महेन्द्र-कुमार-सैनी अवदत् यत् कृषि-विभागस्य सहयोगेन पॉलीहाउस, मल्चिङ्ग् तथा वर्मी-कम्पोस्ट इत्यादीनां प्रविधीनाम् अवलम्बनेन तेन स्वस्य आये उल्लेखनीया वृद्धिः कृता। अपरः प्रगतिशील-कृषकः नवाब-सिंहः मधुमक्षिका-पालनस्य अनुभवम् अवगतयन् उक्तवान् यत् एषा कृषकाणां कृते अतिरिक्त-आयस्य उत्तमं साधनम् अस्ति तथा पर्यावरण-संरक्षणेऽपि सहायकम्।
कृषकैः ‘क्षेत्र-रक्षण-अभियानस्य’ प्रशंसा कृता तथा उक्तं यत् एतेन क्षेत्राणाम् उर्वरा-शक्तेः संरक्षणे सामान्य-जनाय शुद्ध-कृष्युत्पादानां उपलब्धौ च सहायता भविष्यति।
/ अंशु गुप्ता