Enter your Email Address to subscribe to our newsletters

नवदेहली, ०३ जूनमासः (हि.स.)। ओस्लो-नगरे प्रवर्तमानायां नॉर्वे-शतरञ्ज-प्रतियोगितायाः २०२६ अष्टमे चक्रे भारतस्य ग्रैण्डमास्टरः आर.प्रज्ञानानन्द: उत्कृष्टं प्रदर्शनं कृत्वा पञ्चवारं विश्वविजेता मैग्नसकार्ल्सन इत्येनं पराजितवान्। अनेन विजयेन उपाधि-स्पर्धा अधिका रोमाञ्चकारिणी अभवत्।
अस्यां प्रतियोगितायाम् द्वितीयः अवसरः अस्ति यदा प्रज्ञानानन्देन कार्ल्सनः पराजितः। अस्मात् पूर्वम् अपि चतुर्थचक्रे तेन कार्ल्सनः पराजितः आसीत्।
अस्य विजयस्य फलस्वरूपं प्रज्ञानानन्दस्य अधुना १२ अङ्काः सन्ति तथा सः अङ्कतालिकायां तृतीयस्थानं प्राप्तवान्। प्रतियोगितायां अधुना केवलं द्वे चक्रे अवशिष्टे स्तः, भारतीय-क्रीडकः च शीर्षस्थानात् केवलं द्वाभ्याम् अङ्काभ्याम् पश्चात् वर्तते।
अमेरिकादेशस्य वेस्ली सो १४ अङ्कैः सह प्रथमस्थाने वर्तते, यदा तु फ्रान्सदेशस्य अलीरजा फिरोज्जा १३ अङ्कैः सह द्वितीयस्थाने स्थितः अस्ति।
अपरत्र मुक्त-वर्गे भारतस्य अपरः क्रीडकः डी.गुकेश: अस्मिन् चक्रे अलीरजा-फिरोज्जा-विरुद्धं पराजयं प्राप्तवान्। गुकेशः सम्प्रति ८ अङ्कैः सह अन्तिमस्थाने वर्तते, यदा तु कार्ल्सनः तस्मात् केवलम् एकेन अङ्केन अग्रे अस्ति।
Hindusthan Samachar / Divya Ranjan