‘मानसिक-कल्याणाय योगः’ कार्यक्रमे विद्यार्थिभ्यः शिक्षकभ्यश्च योग-ध्यानाभ्यासः कारितः
जम्मूनगरम्, ०३ जूनमासः (हि.स.)। केन्द्रीय-विश्वविद्यालयस्य जम्मूनगरस्य शारीरिक-शिक्षा-निदेशालयेन (डीपीई) ईशा-फाउण्डेशन-जम्मू-केन्द्रस्य सहयोगेन अन्तरराष्ट्रीय-योग-दिवस-२०२६ इत्यस्य उपलक्ष्ये ‘मानसिक-कल्याणाय योगः’ इति विषये विशेष-सत्रस्य आयोजनं कृत
‘योग फॉर मेंटल वेलबीइंग’ कार्यक्रम में विद्यार्थियों और शिक्षकों को कराया योग एवं ध्यान का अभ्यास


जम्मूनगरम्, ०३ जूनमासः (हि.स.)। केन्द्रीय-विश्वविद्यालयस्य जम्मूनगरस्य शारीरिक-शिक्षा-निदेशालयेन (डीपीई) ईशा-फाउण्डेशन-जम्मू-केन्द्रस्य सहयोगेन अन्तरराष्ट्रीय-योग-दिवस-२०२६ इत्यस्य उपलक्ष्ये ‘मानसिक-कल्याणाय योगः’ इति विषये विशेष-सत्रस्य आयोजनं कृतम्।

एषः कार्यक्रमः कुलपतिनः प्रो. (डॉ.) संजीव-जैनस्य मार्गदर्शनेन सहयोगेन च आयोजितः, यस्य उद्देश्यं विश्वविद्यालय-समुदायस्य शारीरिक-मानसिक-स्वास्थ्यस्य संवर्धनम् आसीत्। कार्यक्रमे सद्गुरुणा विकसितानां सरलानां प्रभावीणां च योगाभ्यासानां माध्यमेन मानसिक-शारीरिक-स्वास्थ्ययोः महत्त्वं प्रकाश्यत।

सत्रस्य उद्देश्यं सहभागिनः स्वस्वास्थ्यस्य जीवनशैल्याः च प्रति जागरूकान् कर्तुं तथा आत्म-परिचर्यायाः, सजगतायाः समग्र-कल्याणस्य च प्रोत्साहनम् आसीत्।

अस्मिन् अवसरे सहभागिभ्यः विविध-योगाभ्यासैः, ध्यान-प्रविधिभिः तथा संवादात्मक-चर्चाभिः मनसः शरीरस्य च प्रगाढ-सम्बन्धः बोधितः। विशेषज्ञैः उक्तं यत् योगः भावनात्मक-सन्तुलनस्य रक्षणे, चिन्ताया: न्यूनीकरणे, आन्तरिक-शान्तेः मानसिक-दृढतायाः च विकासे महत्त्वपूर्णां भूमिकां निर्वहति।

ध्यान-सत्रस्य सञ्चालनम् ईशा-फाउण्डेशन-जम्मू-केन्द्रस्य स्वयंसेवकैः तथा केन्द्रीय-विश्वविद्यालयस्य जम्मूनगरस्य सह-प्राध्यापिकया कार्यक्रम-संयोजिकया च डॉ.भावना-अरोडया कृतम्। शान्ते सकारात्मके च वातावरणे आयोजिते अस्मिन् कार्यक्रमे शिक्षकाः, कर्मचारीणः, शोधार्थिनः तथा विद्यार्थिनः उत्साहपूर्वकं सहभागित्वं कृतवन्तः।

सहभागिभिः उक्तं यत् योग-ध्यानाभ्यासाभ्यां तेषाम् एकाग्रतायाम्, भावनात्मक-सन्तुलने तथा कार्यक्षमायां सकारात्मकः सुधारः अनुभूतः।

कार्यक्रमस्य अन्ते आयोजकानां, संसाधन-व्यक्तीनां तथा सहभागिनां प्रति कृतज्ञता प्रकटिता। सहैव दैनिक-जीवने योगस्य ध्यानस्य च अवलम्बनेन समग्र-स्वास्थ्यस्य कल्याणस्य च संवर्धनस्य सन्देशः प्रदत्तः।

Hindusthan Samachar / Divya Ranjan