महाराष्ट्रस्य ‘जीनत्’ नामिका व्याघ्री सिमलीपाले चत्वारः शावकान् अजनयत्
सिमलीपालः, ०३ जूनमासः (हि.स.)। महाराष्ट्रस्य ताडोबा-अन्धारी-व्याघ्र-अभयारण्यात् ओडिशा-राज्यस्य सिमलीपाल-व्याघ्र-अभयारण्ये स्थानान्तरिता ‘जीनत्’ नामिका व्याघ्री चत्वारः शावकान् अजनयत्। एषा घटना सिमलीपाले व्याघ्र-संरक्षणस्य आनुवंशिक-विविधतायाः संवर्ध
ओडिशातील सिमलीपाल जंगलात आपल्या शावकासह झिनत वाघिणी


सिमलीपालः, ०३ जूनमासः (हि.स.)। महाराष्ट्रस्य ताडोबा-अन्धारी-व्याघ्र-अभयारण्यात् ओडिशा-राज्यस्य सिमलीपाल-व्याघ्र-अभयारण्ये स्थानान्तरिता ‘जीनत्’ नामिका व्याघ्री चत्वारः शावकान् अजनयत्। एषा घटना सिमलीपाले व्याघ्र-संरक्षणस्य आनुवंशिक-विविधतायाः संवर्धनस्य च दिशि महती सफलता इति मन्यते। वन-विभागस्य वन्यजीव-विशेषज्ञानां च मते एषा संरक्षण-प्रयत्नानां महत्त्वपूर्णा उपलब्धिः अस्ति।

वन-विभागस्य एकेन वरिष्ठ-अधिकारिणा उक्तं यत् सिमलीपाल-व्याघ्र-अभयारण्ये व्याघ्राणाम् आनुवंशिक-विविधतां वर्धयितुं तेषां जनसङ्ख्यां च दीर्घकालपर्यन्तं सुरक्षितां कर्तुं व्याघ्र-स्थानान्तरण-कार्यक्रमः आरब्धः आसीत्। सिमलीपालः देशस्य महत्त्वपूर्णेषु व्याघ्र-निवासस्थानेषु अन्यतमः अस्ति। अत्र विद्यमानेषु केषुचित् व्याघ्रेषु विशिष्ट-आनुवंशिक-गुणानां कारणेन प्रगाढ-कृष्णवर्णीयाः रेखाः दृश्यन्ते, ये ‘मेलानिस्टिक-व्याघ्राः’ इति कथ्यन्ते। अतः बाह्य-प्रदेशेभ्यः व्याघ्रान् आनीय आनुवंशिक-विविधता वर्धयितुं योजना निर्मिता आसीत्।

केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालयस्य अनुमोदनानन्तरम् ओडिशा-वन-विभागेन महाराष्ट्रस्य ताडोबा-अन्धारी-व्याघ्र-अभयारण्यात् व्याघ्राणां स्थानान्तरण-प्रक्रिया आरब्धा। अस्य अभियानस्य अन्तर्गतं २०२४ तमस्य वर्षस्य अक्टोबर-नवम्बर-मासयोः ‘जमुना’ तथा ‘जीनत्’ नामिके द्वे व्याघ्र्यौ सिमलीपाले मुक्ते आस्ताम्।

किन्तु स्थानान्तरणानन्तरं किञ्चित्कालमेव जीनत् सिमलीपालात् बहिर्गता झारखण्ड-पश्चिमबङ्गयोः वन-प्रदेशेषु च विचरन्ती आसीत्। तस्याः दीर्घ-भ्रमणम् वन्यजीव-विशेषज्ञानां संरक्षणकर्तॄणां च ध्यानम् आकर्षितवत्। वन-विभागस्य निरन्तर-प्रयत्नैः सा पुनः गृहीता तथा २०२५ तमस्य वर्षस्य जनवरी-मासस्य ०१ दिनाङ्के सिमलीपालस्य अन्तर्गतं अष्ट-हेक्टेयर-परिमिते संरक्षित-बाड-इत्यत्र स्थापिता।

अनेक-मासानां यावत् अनुकूलन-प्रक्रियायाः सम्पन्नतायाः अनन्तरम् २०२५ तमस्य वर्षस्य एप्रिल-मासे जीनत् पुनः वने मुक्ति: कृता। ततः परं तया सिमलीपालस्य मुख्य-वन-क्षेत्रे स्वकीयः प्रदेशः स्थापितः तथा २०२६ तमस्य वर्षस्य जनवरी-मासे स्थानीयेन नर-व्याघ्रेण सह तस्याः संयोगः अभवत्। अस्य संयोगस्य परिणामस्वरूपं जीनत् चत्वारः स्वस्थाः शावकान् अजनयत्।

वन-विभागस्य अनुसारं शावकानां वयः सम्प्रति प्रायः त्रि-चतुर-सप्ताहात्मकम् अस्ति। गत-२८ मई दिनाङ्के कैमरा-ट्रैप-चित्रेषु जीनत् स्वैः चतुर्भिः शावकैः सह दृष्टा, येन अस्य संरक्षण-परियोजनायाः सफलतायाः पुष्टिरेव जाता।

विशेषज्ञाः वदन्ति यत् अन्यस्मात् राज्यात् स्थानान्तरितायाः व्याघ्र्याः नूतने निवासस्थाने सफलतया प्रजननं कृत्वा शावकान् जनयितुं महत्त्वपूर्णा उपलब्धिः अस्ति। अनेन सिमलीपाले व्याघ्राणां सङ्ख्या वर्धिष्यते तथा तेषाम् आनुवंशिक-विविधता अपि सुदृढा भविष्यति।

वन्यजीव-विशेषज्ञानां मते जीनत्याः कथा केवलं एकस्याः व्याघ्र्याः कथा नास्ति, अपितु वैज्ञानिक-योजनायाः, वन-विभागस्य निरन्तर-परिश्रमस्य तथा सफल-व्याघ्र-संरक्षण-प्रतिमानस्य प्रेरणादायक: दृष्टान्त: अस्ति। एतेषां चतुर्णां नूतन-शावकानां जन्मना सिमलीपालस्य वनेषु नूतना आशा जागृता अस्ति तथा देशस्य व्याघ्र-संरक्षण-अभियानाय अपि अन्यत् महत्त्वपूर्णं यशः प्राप्तम्।

Hindusthan Samachar / Divya Ranjan