दिल्ली-नगरे अग्निदाहप्रकरणे मुख्यमन्त्रिणा योगी-आदित्यनाथेन शोकः व्यक्तः
लखनऊनगरम्, ०३ जूनमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः दिल्ली-नगरे मालवीय-नगर-क्षेत्रे जातायां भीषण-अग्निदुर्घटनायां शोकं व्यक्तवान्। तेन अस्यां दुर्घटनायां जातां जनहानिम् अत्यन्तं दुःखदां हृदयविदारकां च वर्णयित्वा शोकसन्तप्त-परिजनेभ्यः स्वस्य
मुख्यमंत्री योगी आदित्यनाथ


लखनऊनगरम्, ०३ जूनमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः दिल्ली-नगरे मालवीय-नगर-क्षेत्रे जातायां भीषण-अग्निदुर्घटनायां शोकं व्यक्तवान्। तेन अस्यां दुर्घटनायां जातां जनहानिम् अत्यन्तं दुःखदां हृदयविदारकां च वर्णयित्वा शोकसन्तप्त-परिजनेभ्यः स्वस्य संवेदनाः प्रकटिताः।

मुख्यमन्त्रिणा सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तं यत् दिल्ली-नगरे दुर्भाग्यपूर्णायां भीषण-अग्निदुर्घटनायां जाता जनहानिः अत्यन्तं दुःखदा हृदयविदारका च अस्ति। मम संवेदनाः शोकसन्तप्त-परिजनैः सह सन्ति। प्रभु-श्रीरामं प्रति प्रार्थना अस्ति यत् ते दिवङ्गतानाम् आत्मनां शान्तिं घातितानां च शीघ्रं स्वास्थ्यलाभं प्रददातु।

मुख्यमन्त्री ईश्वरात् एतदपि प्रार्थितवान् यत् शोकसन्तप्त-परिवारेभ्यः एतम् अपार-दुःखं सोढुं शक्तिः प्रदीयताम्। सः अवदत् यत् अस्मिन् कठिनसमये तस्य संवेदनाः सर्वैः प्रभावित-परिवारैः सह सन्ति।

Hindusthan Samachar / Divya Ranjan