भूमि-सम्बद्ध-प्रकरणेषु शिथिलता-विषये कठोर-कार्यवाही भवेत् : मुख्यमंत्री योगी आदित्यनाथः
गोरखपुरनगरम्, ०३ जूनमासः (हि.स.)। मुख्यमंत्री योगी-आदित्यनाथः जनदर्शन-काले भूमिसम्बद्ध-सूचनानां विषये कठोरं पगम् उत्थापितवान्। सः जनपदाधिकारिणं निर्देशितवान् यत् भूमिसम्बद्ध-सूचशानां निस्तारणे यदि कस्यापि स्तरस्य शिथिलता दृश्यते तर्हि तस्य विरुद्ध
माननीय मुख्यमंत्री योगी आदित्यनाथ जी 3 मई को गोरखपुर में जनता दर्शन और गो सेवा करते हुए


Photo caption: माननीय मुख्यमंत्री योगी आदित्यनाथ जी 3 मई को गोरखपुर में जनता दर्शन और गो सेवा करते हुए


Photo caption: माननीय मुख्यमंत्री योगी आदित्यनाथ जी 3 मई को गोरखपुर में जनता दर्शन और गो सेवा करते हुए


गोरखपुरनगरम्, ०३ जूनमासः (हि.स.)। मुख्यमंत्री योगी-आदित्यनाथः जनदर्शन-काले भूमिसम्बद्ध-सूचनानां विषये कठोरं पगम् उत्थापितवान्। सः जनपदाधिकारिणं निर्देशितवान् यत् भूमिसम्बद्ध-सूचशानां निस्तारणे यदि कस्यापि स्तरस्य शिथिलता दृश्यते तर्हि तस्य विरुद्धं कठोर-कार्यवाही अनिवार्यतया कर्तव्या। प्रकरणस्य गम्भीरतानुसारं सम्बन्धितानां विरुद्धं निलम्बन-कार्यवाही अपि क्रियताम् इति सः आदेशं दत्तवान्। सः स्पष्टं उक्तवान् यत् कस्यापि स्तरस्य शैथिल्यं वा लापरवाही कदापि क्षम्या नास्ति।

मुख्यमंत्री योगी आदित्यनाथः गोरखपुर-प्रवासकाले गोरखनाथ-मन्दिरे आयोजिते जनदर्शने द्वितीयदिने बुधवासरे प्रातःकाले जनानां समस्याः शृण्वन् तैः सह साक्षात्कृतवान्। कतिपय-जनाः भूमिसम्बद्धेषु राजस्व-कर्मचारिभिः शिथिलता-आरोपं कृत्वा तस्य समक्षं प्रस्तुताः अभवन्, तदा सः जनपदाधिकारिणं त्वरित-कार्यान्वयनाय कठोर-निर्देशं दत्तवान्।

अस्मिन् अवसरे चिकित्सायै आर्थिक-सहायता-याचनां कृत्वा आगतानां जनानां प्रति सः उक्तवान् यत् सर्वकारः उपचार-विषये पूर्णां सहाय्यं करिष्यति। तेषां कृते आयुष्मान-कार्ड-निर्माणं कारयिष्यते, ततः अपि आवश्यकता भवेत् चेत् विवेकाधीन-कोषात् आर्थिक-सहायता प्रदास्यते। सः सर्वेषां पात्र-लाभार्थिनां आयुष्मान-कार्ड-निर्माणं सुनिश्चितं कर्तुं अधिकारिणः निर्देशितवान्।

जनदर्शने प्रायः १५० जनाः मुख्यमन्त्रिणः समक्षं स्व-समस्याः प्रस्तुतवन्तः। सः तेषां प्रार्थना-पत्राणि अवलोक्य सम्बन्धित-अधिकारिणः प्रति समयबद्धं, निष्पक्षं च निस्तारणं कर्तुं निर्देशितवान्।

गोरखनाथ-मन्दिर-प्रवासकाले सः गोशालायां गोसेवां कृत्वा गवां प्रति गुड-रोटिका-प्रदानं कृतवान् तथा बालकान् स्नेहेन दुलालयन् तेषां शिक्षाविषये संवादं कृतवान्।

Hindusthan Samachar / Divya Ranjan