वाराणस्यां ब्रिक्स-सांस्कृतिक-कार्यसमूहस्य सभा गुरुवासरात् आरभ्य भविष्यति, जीआई-ओडीओपी-उत्पादानां प्रदर्शिनी आयोज्यते
वाराणसीनगरम्, ०३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां चतुर्थे पञ्चमे च जूनमास-दिने ब्रिक्स-सांस्कृतिक-कार्यसमूहस्य द्वितीया सभा आयोज्यते। अत्र ताज-होटल-इत्यत्र प्रस्तावितायां अस्यां सभायां देश-विदेशेभ्यः वरिष्ठ-राजनैयायिकाः, नीतिनिर्मातारः, स
वाराणस्यां ब्रिक्स-सांस्कृतिक-कार्यसमूहस्य सभा गुरुवासरात् आरभ्य भविष्यति, जीआई-ओडीओपी-उत्पादानां प्रदर्शिनी आयोज्यते


वाराणसीनगरम्, ०३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां चतुर्थे पञ्चमे च जूनमास-दिने ब्रिक्स-सांस्कृतिक-कार्यसमूहस्य द्वितीया सभा आयोज्यते। अत्र ताज-होटल-इत्यत्र प्रस्तावितायां अस्यां सभायां देश-विदेशेभ्यः वरिष्ठ-राजनैयायिकाः, नीतिनिर्मातारः, सांस्कृतिक-विशेषज्ञाः तथा विशिष्ट-प्रतिनिधयः सहभागं करिष्यन्ति।

सभायाः अवधौ काश्याः विश्वविख्यातानां जीआई (भौगोलिक-सूचकाङ्क) तथा ओडीओपी (एकः जनपदः-एकः उत्पादः) उत्पादानां विशेष-प्रदर्शिनी अपि आयोज्यते। अस्यां प्रदर्शिन्यां वाराणस्याः समृद्ध-शिल्प-परम्परायाः षट् शिल्पिनः स्वेषां षट् विशिष्ट-उत्पादानां प्रदर्शनं करिष्यन्ति। अस्याः प्रदर्शिन्याः माध्यमेन विदेशी-प्रतिनिधयः एतेषां उत्पादानां वैशिष्ट्येन परिचिताः भविष्यन्ति, तथा च स्थानीय-कलाकाराणां शिल्पकाराणां च उत्पादानां वैश्विक-विपणपर्यन्तं प्रसारणस्य अवसरः अपि भविष्यति।

प्रदेश-सर्वकारेण ओडीओपी तथा जीआई-चिह्नित-उत्पादानां संरक्षणाय, विपणनाय, निर्यात-वर्धनाय च अनेकाः योजनाः सञ्चालिताः सन्ति। एतेषां प्रयत्नानां फलस्वरूपं सहस्रशः शिल्पकाराः, तन्तुवायाः तथा कारीगराः नूतनाम् अभिज्ञानं रोजगार-अवकाशांश्च प्राप्तवन्तः। काश्याः हस्तशिल्प-उत्पादाः अद्य केवलं देशे एव न, अपितु विश्वस्य अनेकेषु देशेषु अपि स्वविशिष्टं परिचयं निर्मितवन्तः।

जीआई-विशेषज्ञः पद्मश्री-रजनीकान्तः कथयति यत् ब्रिक्स-देशानां प्रतिनिधीनां उपस्थितिः स्थानीय-कलाकाराणां उद्यमिनां च कृते महत्त्वपूर्णम् अवसरम् आनयति। विदेशी-प्रतिनिधीनां समक्षं प्रत्यक्षतया उत्पाद-प्रदर्शनेन निर्यातस्य सम्भावनाः वर्धिष्यन्ते तथा अन्ताराष्ट्रिय-विपणपर्यन्तं गमनस्य मार्गः प्रशस्तः भविष्यति। अनेन स्थानीय-अर्थव्यवस्थायाः सुदृढीकरणं भविष्यति तथा काश्याः पारम्परिक-शिल्पं नूतनां वैश्विक-परिचितिं प्राप्स्यति।

राष्ट्रीय-पुरस्कार-विजेता वाराणसी-काष्ठ-लाक्षा-शिल्प-तथा-क्रीडनक-निर्माता रामेश्वर-सिंहः अवदत् यत् अन्ताराष्ट्रिय-आयोजनैः महत् मञ्चं प्राप्यते। ब्रिक्स-सभायां हस्तशिल्प-प्रदर्शनेन शिल्पिनां कौशलं स्थानीय-विपणात् वैश्विक-विपणं प्रति गमिष्यति।

गुलाबी-मीनाकारी-कलायाः राष्ट्रीय-पुरस्कार-विजेता कलाकारः कुञ्ज-बिहारी कथयति यत् प्रधानमन्त्री नरेन्द्र-मोदी तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः स्वयम् जीआई-ओडीओपी-उत्पादानां ब्राण्ड-दूतौ स्तः। ताभ्यां प्रदेशस्य हस्तशिल्पानां नूतन: परिणाम: प्रदत्त: तथा प्राचीनाः लुप्यमानाः कलाः पुनर्जीविताः। अस्याः प्रदर्शिन्याः माध्यमेन वाराणस्याः हस्तशिल्प-उत्पादानां प्रचारः भविष्यति। देश-विदेशेभ्यः आगताः विशिष्ट-अतिथयः काश्याः अस्याः कलायाः परिचयं प्राप्स्यन्ति, तस्याः सूक्ष्मताः ज्ञास्यन्ति, तथा च आदेश-प्राप्तेः नूतनाः सम्भावनाः उद्घाटिताः भविष्यन्ति।

आर्टिजन-ग्लास-बीड्स-कलाकारः दुर्गाप्रसाद-पटेलः कथयति यत् देशस्य सांस्कृतिक-धरोहरां वैश्विक-पटलम् उपस्थापयितुं अवसरः प्राप्यते। एतादृशाः अवसराः राष्ट्रस्य परम्परां नूतन-उच्चतां प्रति नेतुं साहाय्यं कुर्वन्ति।

प्रदर्शिन्यां प्रदर्शिताः प्रस्ताविताः जीआई-ओडीओपी-उत्पादाः—

बनारस-गुलाबी-मीनाकारी-शिल्पम्।बनारस-ब्रोकेड्-तथा-साटिका।वाराणसी-मृदु-शैल-जालिका-शिल्पम्।वाराणसी-काष्ठ-लाक्षा-शिल्प-तथा-क्रीडनकानि।बनारस-धातु-रिपोजी-शिल्पम्।बनारस-काच-मणयः।

Hindusthan Samachar / Divya Ranjan