Enter your Email Address to subscribe to our newsletters

पिथौरागढम् (उत्तराखण्डः), ०३ जूनमासः (हि.स.)। सीमावर्ती-पिथौरागढ-जनपदे स्थितायाः पवित्रायाः आदि-कैलास-ॐपर्वत-यात्रायाः प्रति श्रद्धालूनां पर्यटकानां च आकर्षणं निरन्तरं वर्धमानम् अस्ति। यात्रायाः आरम्भात् केवलं ३३ दिनेषु अन्तःसीमा-अनुज्ञापत्राणां (इनर-लाइन-परमिट्) संख्या ३०,०१६ इति प्राप्ता, येन अस्मिन् वर्षे यात्रायाः नूतनः अभिलेखः स्थापितः।
जनपद-प्रशासनस्य अनुसारेण जूनमासस्य ०२ दिनाङ्कपर्यन्तं ३०,०१६ अन्तःसीमा-अनुज्ञापत्राणि निर्गतानि सन्ति। केवलं जूनमासस्य ०२ दिनाङ्के एव १,१७८ अनुज्ञापत्राणि निर्गतानि। यात्रायाः शुभारम्भः मे-मासस्य ०१ दिनाङ्के जोलीकोंग-स्थाने पार्वती-कुण्डस्य समीपे स्थितस्य शिव-मन्दिरस्य कपाटोद्घाटनेन अभवत्।
विवरणानुसारं वर्षे २०२४ सम्पूर्ण-यात्राकाले २९,३५२ तथा वर्षे २०२५ मध्ये ३६,५२६ अन्तःसीमा-अनुज्ञापत्राणि निर्गतानि आसन्। अतः अस्मिन् वर्षे केवलं ३३ दिनेषु ३० सहस्र-संख्यायाः अतिक्रमणं यात्रायाः प्रति वर्धमानायाः श्रद्धायाः लोकप्रियतायाश्च स्पष्टं सूचकम् इति मन्यते।
जनपद-प्रशासनस्य अनुसारम् मे-मासस्य ०१ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं प्रायः २८ सहस्रं श्रद्धालवः पर्यटकाश्च आदि-कैलासम् ॐपर्वतं च प्राप्तवन्तः, यत् गतवर्षस्य तुलनायां १५० प्रतिशताधिक-वृद्धिं दर्शयति। प्रधानमन्त्री नरेन्द्रमोदी-महाभागस्य २०२३ तमस्य वर्षस्य अक्टोबर-मासे आदि-कैलास-भ्रमणात् तथा २०२४ तमस्य वर्षस्य जून-मासे मुख्यमन्त्रिणः पुष्करसिंहधामी-महाभागस्य अत्र योग-साधनानन्तरं अस्य आध्यात्मिक-धाम्नः राष्ट्रिय-स्तरे नूतना परिचय: प्राप्त:। ततः प्रभृति: देशस्य विभिन्न-प्रदेशेभ्यः आगच्छन्तां श्रद्धालूनां प्रकृतिप्रेमिणां च संख्या निरन्तरं वर्धते।
जिलाधिकारिणा आशीष-भटगाईं-महाभागेन उक्तं यत् आदि-कैलास-यात्रा सीमावर्ती-क्षेत्रस्य जनानां कृते रोजगारस्य महत्त्वपूर्णं साधनं जातम्। पर्यटन-आधारित-क्रियाकलापानां संवर्धनेन स्थानीय-अर्थव्यवस्था सुदृढा अभवत् तथा सीमासमीपस्थ-ग्रामेषु रोजगार-अवसराणां वृद्ध्या पलायन-निरोधेऽपि सहायता जाता। प्रशासनस्य यात्रिकेभ्यः अपील अस्ति यत् यात्रायाः पूर्वं आवश्यक-दस्तावेजान् स्वसमीपे धारयेयुः, ऋतो: सूचनां प्राप्नुयुः तथा प्रशासनस्य निर्देशान् अनुसृत्य सुरक्षितां यात्रां सुनिश्चितां कुर्युः।
Hindusthan Samachar / Divya Ranjan