Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 03 जूनमासः (हि.स.)।
मुख्यविकासाधिकाऱिणा नीति आयोगस्य अधीनसञ्चालितस्य आकांक्षीजनपदकार्यक्रमस्य हरिद्वारजनपदस्य तथा आकांक्षीविकासखण्डकार्यक्रमस्य बहादराबादविकासखण्डस्य समीक्षा उपवेशनस्य आयोजनं कृतम्। अस्मिन् उपवेशने जनपदस्तरीयविकासखण्डस्तरीयाधिकारीणः सहभागिनः अभवन्।
उपवेशने स्वास्थ्य आङ्गनबाडी कृषि शिक्षा कौशलविकास वित्तीयसमावेशनसम्बद्धानां विविधसंकेतकानां प्रगतिः मुख्यविकासाधिकारी ललितनारायणमिश्रेण समीक्षिता। येषु संकेतकेषु पूर्णलक्ष्यप्राप्तिः जाता तेषां विषये सम्बद्धविभागानां प्रयासाः प्रशंसिताः। अवशिष्टसंकेतकेषु शतप्रतिशटलक्ष्यसिद्ध्यर्थं विभागान् प्रभाविकार्ययोजना निर्मातुं निर्देशाः प्रदत्ताः।
आकांक्षीविकासखण्डकार्यक्रमस्य बहादराबादस्य समीक्षा समये आङ्गनबाडीविभागाय अग्रपङ्क्तिकार्यकर्तृणां प्रोत्साहनद्वारा संकेतकसुधारस्य निर्देशाः प्रदत्ताः। मुख्यविकासाधिकाऱिणा सर्वेभ्यः विभागेभ्यः नवाचाराणां उत्कृष्टकार्याणां प्रभावीपहलानां च अभिलेखीकरणे व्यापकप्रचारप्रसारे च विशेषध्यानं दातुं कथितम्। एतेन नीति आयोगस्य मानकेषु जनपदस्य विकासखण्डस्य च प्रदर्शनं अधिकं श्रेष्ठं भविष्यति।
Hindusthan Samachar / Dheeraj Maithani