वन्दे गङ्गा-अभियानस्य अन्तर्गतं चित्तौड़-दुर्गे महास्वच्छता-अभियानस्य आरम्भः जातः, जनपदाधिकारिणा जल-संरक्षणस्य सन्देशः प्रदत्तः
चित्तौड़गढनगरम्, ०३ जूनमासः (हि.स.)। राज्य-सर्वकारस्य महत्वाकांक्षिणः “वन्दे गङ्गा-जल-संरक्षण-जन-अभियानस्य” अन्तर्गतं मंगलवारदिने ऐतिहासिके चित्तौड़-दुर्गे महास्वच्छता-अभियानस्य शुभारम्भः कृतः। अस्य अभियानस्य अन्तर्गतं दुर्ग-स्थित-व्यूपॉइण्टतः विजय
चित्तौड़गढ़ दुर्ग पर बुधवार को वंदे गंगा अभियान के तहत हुआ कार्यक्रम।


चित्तौड़गढनगरम्, ०३ जूनमासः (हि.स.)। राज्य-सर्वकारस्य महत्वाकांक्षिणः “वन्दे गङ्गा-जल-संरक्षण-जन-अभियानस्य” अन्तर्गतं मंगलवारदिने ऐतिहासिके चित्तौड़-दुर्गे महास्वच्छता-अभियानस्य शुभारम्भः कृतः। अस्य अभियानस्य अन्तर्गतं दुर्ग-स्थित-व्यूपॉइण्टतः विजयस्तम्भपर्यन्तं जागरूकता-शोभायात्रा आयोजिता। अस्यां शोभायात्रायां जनपद-प्रशासनं, विविध-औद्योगिक-संस्थाः, युवा-वर्गः तथा सामाजिक-संस्थाः च सहभागं कृतवन्तः।

शोभायात्रा-अनन्तरं विजयस्तम्भ-कालिका-मन्दिर-परिसरे जनपद-उपायुक्ता-डॉ.मंजू-इत्यस्य नेतृत्वे स्वच्छता-अभियानः सञ्चालितः। जनपद-उपायुक्त-सहिताः उपस्थिताः अधिकारिणः, कर्मचारीणः तथा युवानः स्वहस्तेन स्वच्छतां कृत्वा स्वच्छता-पर्यावरण-संरक्षणयोः सन्देशं प्रदत्तवन्तः।

अस्मिन् अवसरे जनपद-उपायुक्ता डॉ.मंजू उक्तवती यत् जल-संरक्षणं वर्तमानकाले अत्यन्तं आवश्यकम् अस्ति तथा प्रत्येकं नागरिकस्य दायित्वम् अस्ति यत् सः जल-संरक्षणे, वर्षाजल-संग्रहणे तथा अधिकाधिक-वनरोपणाय अग्रे आगच्छेत्। सा उक्तवती यत् यदि एतानि स्वच्छता-अभियानानि केवलं औपचारिकतया न सन्ति किन्तु प्रत्येकं त्रिमासे नियमितरूपेण आयोजिताः भवन्ति तर्हि जनपदे स्वच्छता-पर्यावरण-संरक्षणयोः दिशि व्यापकं परिवर्तनं सम्भवम्।

जनपद-उपायुक्त: अभियाने सहभागी-युवानां प्रशंसां कृतवती तथा उक्तवती यत् यूनां सहभागितया पर्यावरण-संरक्षण-आन्दोलनानि नूतनां ऊर्जा प्राप्नुवन्ति। सा औद्योगिक-संस्थाभ्यः अपि आह्वानं कृतवती यत् अग्रिम-वर्षाकाले अधिकाधिक-वनरोपणं कुर्युः, समीपवर्ती-क्षेत्रेषु हरियाली-वृद्धिं कुर्वन्तु तथा सीएसआर-क्रियाकलापैः सर्वकारी-भवनेषु जल-संग्रहण-संरचनाः विकसिताः कुर्वन्तु।

अभियाने अपर-जनपद-उपायुक्त: दिनेश-चन्द्र-धाकड़ः, अपर-जनपद-उपायुक्त: रामचन्द्र-खटीकः, अपर-मुख्य-कार्यकारी-अधिकारी राकेश-पुरोहितः, उपखण्ड-अधिकारी बीनू-देवलः, नगर-परिषद्-आयुक्तः रविन्द्र-यादवः इत्यादयः उपस्थिताः आसन्। अस्मिन् काले हिन्दुस्तान-जिंक्, वंडर-सीमेंट, बिरला-सीमेंट, आदित्य-बिरला-अल्ट्राटेक, संगम: इत्यादयः अनेकाः औद्योगिक-संस्थाः सक्रियं सहभागं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan