Enter your Email Address to subscribe to our newsletters

कठुआनगरम्, ०३ जूनमासः (हि.स.)। नशा-मुक्त-भारत-अभियानस्य अन्तर्गतं गवर्नमेण्ट-डिग्री-कॉलेज-महानपुरस्य एनएसएस-विभागेन डोर-टू-डोर-इति जागरूकता-अभियानं सञ्चालितम्। अस्मिन् अवसरे स्वयंसेवकाः समीपस्थ-ग्रामेषु गत्वा गृहे-गृहे जनान् मद्यदुष्प्रभावान् तथा स्वस्थ-नशामुक्त-जीवनस्य महत्त्वं प्रति जागरूकाः कृतवन्तः।
अभियानकाले युवानः, महिलाः तथा अन्य-नागरिकाः मद्यस्य शारीरिक-मानसिक-सामाजिक-दुष्प्रभावाणां विषये अवगताः कृताः तथा पम्पलेट-प्रचार-पत्रकाणि एवं जागरूकता-सामग्री च वितरिता।
कार्यक्रमः प्राचार्या डॉ.संगीता सूदनस्य मार्गदर्शने तथा एनएसएस-कार्यक्रम-अधिकारी डॉ.रुपाली जसरोतिया-इत्यस्य समन्वयेन आयोजितः। अन्ते जनाः नशामुक्त-भारत-निर्माणाय संकल्पं कृतवन्तः।
Hindusthan Samachar / Divya Ranjan