Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०३ जूनमासः (हि.स.)। पश्चिमबङ्गालस्य भारतीय-जनता-पक्ष-नेतृत्वयुक्त-सर्वकारेण भारतीय-क्रिकेट-दलस्य पूर्व-नायकस्य तथा भारतीय-क्रिकेट-नियन्त्रण-मण्डलस्य (बीसीसीआई) पूर्वाध्यक्षस्य सौरव-गाङ्गुली-महाभागस्य सुरक्षाव्यवस्थायां कर्तनं कर्तुं निर्णयः कृतः। अधुना यावत् तस्मै ‘जेड्’-श्रेण्याः सुरक्षा प्रदत्ता आसीत्, किन्तु अधुना तस्मै ‘वाई’-श्रेण्याः सुरक्षा प्रदास्यते। अनेन निर्णयेन तस्य सुरक्षाव्यवस्था द्वाभ्यां स्तराभ्यां न्यूनतां गमिष्यति।
अस्मिन् विषये सौरव-गाङ्गुली-महाभागस्य प्रतिक्रियां ज्ञातुं प्रयासः कृतः, किन्तु तेन अस्मिन् विषये किमपि वक्तुं अस्वीकृतम्।
राज्ये सत्तापरिवर्तनानन्तरं विविधेभ्यः राजनैतिक-नेतृभ्यः विशिष्ट-व्यक्तिभ्यश्च प्रदीयमानायाः सुरक्षाव्यवस्थायाः समीक्षा क्रियमाणा अस्ति। मुख्यमन्त्रिणा शुभेन्दु-अधिकारी-महाभागेन पदभारग्रहणानन्तरं नवान्ने आयोजितायां सभायां स्पष्टतया उक्तं यत् येषां व्यक्तीनां प्रति वास्तविकः सुरक्षा-संकटः नास्ति, तेभ्यः अनावश्यक-सुरक्षा न प्रदास्यते।
ततः परं राज्य-पुलिस-विभागेन राजनैतिक-नेतॄणां सह तेषाम् अन्येषामपि व्यक्तीनां सुरक्षायाः समीक्षा आरब्धा, येभ्यः राज्य-सर्वकारेण विशेष-सुरक्षा प्रदत्ता आसीत्। सर्वप्रथमं तृणमूल-काङ्ग्रेस-दलस्य सांसदस्य अभिषेक-बन्द्योपाध्यायस्य अतिरिक्त-सुरक्षा प्रत्याहृता आसीत्। सर्वकारेण स्पष्टं कृतं यत् तस्मै सांसदत्वेन निर्धारितैव सुरक्षा प्रदास्यते।
तदनन्तरं तृणमूल-काङ्ग्रेस-दलस्य अनेक-नेतॄणां तथा पूर्व-आरक्षक-अधिकारिणां सुरक्षाव्यवस्थायामपि कर्तनं कृतम्। अधुना अस्याः सूचेः अन्तर्गतं सौरव-गाङ्गुली-महाभागस्य नाम अपि समाविष्टम् अभवत्। राज्य-सर्वकारस्य एषः निर्णयः सुरक्षाव्यवस्थायाः व्यापक-समीक्षा-प्रक्रियायाः भागरूपेण परिगण्यते।
Hindusthan Samachar / Divya Ranjan