Enter your Email Address to subscribe to our newsletters

कोलकाता, 03 जूनमासः (हि.स.)। पश्चिमबङ्गराज्यस्य भारतीयजनतापक्षसर्वकारेण बुधवासरे घोषणा कृता यत् जूनमासस्य विंशतितमदिनाङ्कः आधिकारिकरूपेण पश्चिमबङ्गराज्यदिवसरूपेण आचरिष्यते। एषः निर्णयः राज्यस्य मन्त्रिमण्डलोपवेशने स्वीकृतः। अस्याः उपवेशनस्य अध्यक्षता मुख्यमन्त्रिणा शुभेन्दु अधिकारिणा कृतामन्त्रिमण्डलोपवेशनानन्तरं पञ्चायतमन्त्री दिलीप घोष उक्तवान् यत् १९४७ तमवर्षस्य जूनमासस्य विंशतितमदिनाङ्के तत्कालीनबङ्गविधानसभायां डॉ श्यामाप्रसादमुखर्जेः नेतृत्वे महत्त्वपूर्णः प्रस्तावः पारितः आसीत्। अस्य प्रस्तावस्य परिणामस्वरूपं बङ्गविभाजनस्य पश्चिमबङ्गराज्यगठनस्य च मार्गः प्रशस्तः अभवत्। अस्य ऐतिहासिकमहत्त्वस्य विचारं कृत्वा राज्यसर्वकारेण जूनमासस्य विंशतितमदिनाङ्कः पश्चिमबङ्गदिवसरूपेण आचरितुं निर्णयः कृतः।
दिलीप घोषः उक्तवान् यत् अधुना प्रतिवर्षं जूनमासस्य विंशतितमदिनाङ्के राज्यसरकारस्य पक्षतः आधिकारिककार्यक्रमाः आयोजिताः भविष्यन्ति। अस्मात् पूर्वं भारतीयजनतापक्षेण जूनमासस्य विंशतितमदिनाङ्कः पश्चिमबङ्गदिवसरूपेण आचरितः। पूर्ववर्तिन्या तृणमूलकाङ्ग्रेससर्वकारेण तु बाङ्गलिनववर्षस्य पोइला बोइशाख इति पर्वदिने अर्थात् एप्रिलमासस्य चतुर्दश अथवा पञ्चदशदिनाङ्के राज्यदिवसः आचरितः।
मन्त्रिणा एतदपि घोषितं यत् जनसङ्घस्य संस्थापकस्य डॉ श्यामाप्रसादमुखर्जेः पञ्चविंशत्यधिकशततमजयंती सम्पूर्णराज्ये वर्षपर्यन्तं विविधकार्यक्रमैः आचरिष्यते। डॉ मुखर्जी इत्यस्य जयंती जुलाईमासस्य षष्ठदिनाङ्के आचर्यते।
तेन उक्तं यत् वर्षपर्यन्तं प्रचलितानां कार्यक्रमाणां सञ्चालनार्थं दशसदस्यीयसमितेः गठनं भविष्यति। अस्यां समितौ मन्त्रिणः विधायकाः अन्ये विशिष्टजनाः च समावेश्यन्ते। एतदतिरिक्तं जुलाईमासस्य षष्ठदिनाङ्के विशेषसमारोहः आयोजितः भविष्यति। तस्मिन् चयनितस्थले डॉ श्यामाप्रसादमुखर्जेः प्रतिमा स्थापिता भविष्यति।
मन्त्रिमण्डलोपवेशने राज्यस्य मा आहार योजना इत्यस्य विस्तारस्य निर्णयः अपि कृतः। दिलीप घोष उक्तवान् यत् वर्तमानकाले पञ्चरूप्यकेण भोजनप्रदानं कुर्वती एषा योजना राज्यस्य त्रिशतनवतिस्थानेषु सञ्चालिता अस्ति। अधुना तस्याः विस्तारः कृत्वा पञ्चशतकेन्द्रपर्यन्तं नीयते।
उल्लेखनीयं यत् पूर्ववर्तिन्या तृणमूलकाङ्ग्रेससर्वकारेण मा कैंटीन परियोजना अन्तर्गतं पञ्चरूप्यकेण अण्डचावलभोजनयोजना आरब्धा आसीत्। भारतीयजनतापक्षसर्वकारेण तस्यां परिवर्तने कृते समानेन मूल्येन मत्स्ययुक्तभोजनप्रदानं आरब्धम्। अधुना एषा योजना मा आहार इति नाम्ना राज्यस्य पञ्चशतस्थानेषु सञ्चालिता भविष्यति।
राज्यसर्वकारस्य अनुसारं एतेषां निर्णयानां उद्देश्यं बङ्गप्रदेशस्य ऐतिहासिकमहत्त्वस्य सम्मानः तथा सामान्यजनानां कृते सामाजिककल्याणयोजनानां विस्तारः च अस्ति।---------------
Hindusthan Samachar / Dheeraj Maithani