आगरानगरे अद्य लोकमातुः अहिल्याबाई-होल्कर-महाभागायाः प्रतिमायाः लोकार्पणं करिष्यति ओम् बिरला
आगरानगरम्, जूनमासस्य ३० दिनाङ्कः (हि.स.)। आगरानगरे लोकमातुः अहिल्याबाई-होल्कर-महाभागायाः प्रतिमा-लोकार्पण-कार्यक्रमे अद्य लोकसभाध्यक्षः ओम् बिरला मुख्यातिथि-रूपेण सहभागं करिष्यति। सः लोकार्पणस्थलस्य समीपे आयोजितां विशालां जनसभामपि सम्बोधयिष्यति। उ
आगरा में ओम बिरला करेंगे अहिल्याबाई होल्कर प्रतिमा का अनावरण


आगरानगरम्, जूनमासस्य ३० दिनाङ्कः (हि.स.)। आगरानगरे लोकमातुः अहिल्याबाई-होल्कर-महाभागायाः प्रतिमा-लोकार्पण-कार्यक्रमे अद्य लोकसभाध्यक्षः ओम् बिरला मुख्यातिथि-रूपेण सहभागं करिष्यति। सः लोकार्पणस्थलस्य समीपे आयोजितां विशालां जनसभामपि सम्बोधयिष्यति।

उत्तरप्रदेशस्य आग्राजनपदस्य एत्मादपुर-थानाक्षेत्रान्तर्गतस्य आदर्श-विद्यालय-प्राङ्गणे लोकमातुः अहिल्याबाई-होल्कर-महाभागायाः त्रिशतैकतम-जन्मजयन्त्याः उपलक्ष्ये तस्याः प्रतिमायाः लोकार्पणं तथा जनसभासम्बोधनस्य कार्यक्रमः आयोजितः अस्ति। अस्मिन् कार्यक्रमे लोकसभाध्यक्षः ओम् बिरला मुख्यातिथि-रूपेण सहभागं करिष्यति।

प्राप्तसूचनानुसारम् ओम् बिरला मङ्गलवासरे प्रायः मध्याह्ने द्वादशवादने रेलयानद्वारा मथुरा-रेलस्थानकम् आगमिष्यति। ततः सः मार्गेण प्रायः अपराह्णे एकवादने आग्रायाः सर्किट-हाउस इति स्थलं प्राप्य अल्पविश्रामं करिष्यति। अनन्तरम् अपराह्णे द्विवादने एत्मादपुरम् आगत्य कार्यक्रमे सहभागं करिष्यति। लोकमातुः अहिल्याबाई-होल्कर-महाभागायाः प्रतिमायाः लोकार्पणानन्तरं प्रायः अपराह्णे त्रिवादने कार्यक्रमस्थलात् यानेन नवदेहल्यै प्रस्थानस्य कार्यक्रमः निर्धारितः अस्ति।

अस्मिन् कार्यक्रमे महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रफडणवीसः अपि आमन्त्रितः अस्ति। किन्तु अद्यावधि प्राप्तकार्यक्रमानुसारं महाराष्ट्र-विधानपरिषदः अध्यक्षः प्रो.रामशिन्दे मङ्गलवासरे नवी-मुम्बई-विमानस्थानकात् इण्डिगो-विमानसेवया प्रायः अपराह्णे द्विवादने आगरानगरम् आगमिष्यतीति पुष्टिः जाता अस्ति। लोकमातुः अहिल्याबाई-होल्कर-महाभागायाः प्रतिमा-स्थापनानन्तरं सः प्रायः अपराह्णे सार्धचतुर्वादने कार्यक्रमस्थलात् यानेन देहल्यै प्रस्थानं करिष्यति।

मातेश्वरी-अहिल्याबाई-होल्कर-केन्द्रीय-जन्मजयन्ती-समारोह-समितेः आगरा-नगराध्यक्षः निहालसिंह-बघेलः अवदत् यत् आदर्श-विद्यालय-प्राङ्गणे प्रायः त्रिंशत्सहस्रात् चत्वारिंशत्सहस्रपर्यन्तं जनानां सहभागस्य व्यवस्था विद्यते। वयं आशामहे यत् बघेल-समाजेन सह सर्वसमाजस्य अपि बहुसंख्याकाः जनाः अस्मिन् कार्यक्रमे समागमिष्यन्ति। गतकतिपयदिनेषु कार्यक्रमस्य सफलतार्थम् एत्मादपुरे, टूण्डलायाम्, फिरोजाबादे, एटा-जनपदे च व्यापकः जनसम्पर्कः कृतः। अयं सामाजिकः कार्यक्रमः अस्ति, यस्मिन् सर्वेभ्यः जनाभ्यः सहभागाय आह्वानम् कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan