अमरनाथ-यात्रां प्रति श्रद्धालूनां मध्ये महदुत्साहः
जम्मूनगरम्, ३० जूनमासः (हि.स.)। श्री-अमरनाथ-यात्रायै देशस्य विभिन्न-प्रदेशेभ्यः समागतानां श्रद्धालूनां मध्ये बाबा-बर्फानी-दर्शनं प्रति महदुत्साहः दृश्यते। जम्मूनगरेण सह यात्रायाः विभिन्नेषु केन्द्रेषु श्रद्धालूनां पर्याप्त: सम्मर्द: समुपस्थित: अस्त
अमरनाथ-यात्रां प्रति श्रद्धालूनां मध्ये महदुत्साहः


जम्मूनगरम्, ३० जूनमासः (हि.स.)। श्री-अमरनाथ-यात्रायै देशस्य विभिन्न-प्रदेशेभ्यः समागतानां श्रद्धालूनां मध्ये बाबा-बर्फानी-दर्शनं प्रति महदुत्साहः दृश्यते। जम्मूनगरेण सह यात्रायाः विभिन्नेषु केन्द्रेषु श्रद्धालूनां पर्याप्त: सम्मर्द: समुपस्थित: अस्ति।

श्रद्धालवः वदन्ति यत् ते दीर्घकालात् एतस्याः पवित्रायात्रायाः प्रतीक्षां कुर्वन्तः आसन् तथा च बाबा-अमरनाथस्य दर्शनं प्रति अत्यन्तम् उत्साहिताः सन्ति।

प्रशासनेन यात्रिणां सुरक्षायै, पञ्जीकरणाय, स्वास्थ्य-सुविधानां प्रदाय तथा अन्यासां व्यवस्थापनानां कृते व्यापकाः व्यवस्थाः कृताः सन्ति, येन यात्रा सुचारुरूपेण सुरक्षिततया च सम्पन्ना भवेत्।

Hindusthan Samachar / Divya Ranjan