धेमाजी-जनपदस्य जोनाई-क्षेत्रे जलप्रभावितानां साहाय्यार्थम् असम-सर्वकारः दृढतया तिष्ठति - मुख्यमन्त्री
गुवाहाटीनगरम्, ३० जूनमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ.हिमन्तबिस्वसरमा अवदत् यत् पर्वतीय-क्षेत्रेभ्यः आगतया अनियन्त्रित-जलधारया धेमाजी-जनपदस्य विस्तीर्णे जोनाई-क्षेत्रे भीषणा अतिजलस्थितिः उत्पन्ना अस्ति। अस्याः प्राकृतिक-विपदः कारणात् अनेकेषु ग्
The images Shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटीनगरम्, ३० जूनमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ.हिमन्तबिस्वसरमा अवदत् यत् पर्वतीय-क्षेत्रेभ्यः आगतया अनियन्त्रित-जलधारया धेमाजी-जनपदस्य विस्तीर्णे जोनाई-क्षेत्रे भीषणा अतिजलस्थितिः उत्पन्ना अस्ति। अस्याः प्राकृतिक-विपदः कारणात् अनेकेषु ग्रामेषु व्यापकं क्षतिः अभवत् तथा च बहवः परिवाराः कठिन-परिस्थितीनां समक्षं कुर्वन्ति।

मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते स्वसन्देशे अवदत् यत् तेलाम-मिसामोरा-रामधन-दिखारी-ग्रामपञ्चायतानाम् अन्तर्गताः मधुपुर-अरुण-चापोरी-जामुगुड़ी-सियारी-क्रमाङ्क-२-उलुवानी-, माजग्राम-क्रमाङ्क-२-तथा-क्रमाङ्क-३-मलान-ग्रामाः अतिजलेन गम्भीररूपेण प्रभाविताः अभवन्। बाढया अतिजलेन गृहाणि, कृषिक्षेत्राणि, आजीविकाः च गम्भीररूपेण प्रभाविताः अभवन्।

सः अवदत् यत् अस्मिन् सङ्कटकाले राज्यसर्वकारः प्रभावितजनानां साहाय्यार्थं दृढतया तिष्ठति। सर्वकारः, जनपद-प्रशासनं च राहत-पुनर्वास-आवश्यक-सहायतानां प्रदाने समन्वयेन कार्यं कुर्वन्ति, तथा च अनेके आवश्यकपदानि पूर्वमेव गृहीतानि सन्ति। मुख्यमन्त्री विश्वासं व्यक्तवान् यत् सर्वेषां सहयोगेन, साहसेन, संवेदनशीलतया च अस्याः विपदः उपरि शीघ्रमेव नियन्त्रणं प्राप्स्यते।

Hindusthan Samachar / Divya Ranjan